SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ७ ] प्रथमः स्वरगताध्यायः २२३ ; इतरे (८) | नवम्यां मध्ये ससगसाश्चत्वारः ; माश्चत्वारः; एवमष्टो लघवः | अहिमुखमणिखचीत्यक्षराणि (९) । दशम्यां मन्द्रे माश्चत्वारः निधौ द्वौ ; मौ द्वौ ; एवमष्टौ लघवः । तोज्ज्वलनूपुरेत्यक्षराणि द्वितीयष्ठौ शेषौ (१०) । एकादश्यां मध्ये धौ द्वौ ; नी द्वौ ; रिगौ द्वौ ; मन्द्रे मौ द्वौ एवमष्टौ लघवः । बालभुजंगमेत्यक्षराणि - तृतीयसप्तमौ शेषौ (११) ; द्वादश्यां मन्द्रे मौ द्वौ ; प एकः ; ध एकः ; निषादाश्चत्वारः; एवमष्टौ लघवः । रवकलितमित्यक्षराणि - रवकलिभिर्ममपधाः ; तच्छेषो निः; तमिति निः; तच्छेषावितरौ ( १२ ) । त्रयोदश्यां मन्द्रे पौ द्वौ ; नी द्वौ ; मध्य ऋषभाश्चत्वारः; एवमष्टौ लघवः । द्रुतमभिव्रजामीत्यक्षराणिसप्तमः शेषः (१३) । चतुर्दश्यां मध्ये रिरेकः ; मास्त्रय: ; रिगौ द्वौ ; सौ द्वौ ; एवमष्टौ लघवः । शरणमनिन्दितेत्यक्षराणि - षष्ठः शेष: (१४) । पञ्चदश्यां मध्ये धमरिगसधाः षट्; नी द्वौ; एवमष्टौ लघवः । पादयुगपङ्केत्यक्षराणि— द्वितीय सप्तमौ शेषौ (१५) । षोडश्यां तारे पमरिगाश्चत्वारः ; मध्ये निषादाश्चत्वारः ; एवमष्टौ लघवः । जविलासमित्यक्षाणि -- जविलाभिः पमरयः ; तच्छेषो गः ; समिति निः; तच्छेषाः परे (१६) । तं सुरवन्दितमहिषमहाऽसुरमथनमुमापतिं भोगयुतं नगसुतकामिनीदिव्यविशेषकसूचकशुभनखदर्पणकम् । अहिमुखमणिखचितोज्ज्वलनूपुरबालभुजंगमरवकलितं द्रुतमभिव्रजामि शरणम निन्दितपादयुगपङ्कजविलासम् ॥ इति नैषादी || ७ || " इति षाड्ज्यादयः सप्त जातयः शुद्धतालक्षणयुक्ता एव प्रस्तारे दर्शिताः । लक्षणेषु नामस्वराव्यतिरेकेण स्वरान्तराणां ग्रहांशापन्यासत्ववचनं तु तासामेव विकृतदशायामपि नियमप्रदर्शनार्थमित्यवसेयम् ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy