________________
प्रकरणम् ७] प्रथमः स्वरगताध्यायः
अथ प्रत्येकमेतासां जातीनां लक्ष्म कथ्यते ॥ ५९ ॥ सेति तच्छब्दाध्याहारः कर्तव्यः । परिसंख्योदाहरणं यथा--' इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति । चयनप्रकरणे 'इमामगृभ्णन्-' इति मन्त्रे रशनालिङ्गेन प्राप्तयोरश्वगर्दभाभिधान्योः ‘तस्मादश्वाद्गर्दभो ऽश्वतरः' इति निकृष्टाया गर्दभाभिधान्या अश्वाभिधानी श्रेयसीत्येवैकस्या अतिशयाय ‘इमामगृभ्णनशनामृतस्य' इति मन्त्रानुवादेन 'अश्वाभिधानीमादत्ते' इति यत्तदर्थ शास्त्रवचनं परिसंख्या, तद्वत् । परिसंख्याया इतरपरिवर्जनफलत्वादिहापि निषादस्याप्यल्पत्वनिषेधः फलम् ॥ -५७-५८-॥
(सु०) क्रमादिति । षाडवौडुवकारिणौ यौ स्वरौ तयोः संपूर्णत्वदशायां क्रमादल्पाल्पतरते ज्ञातव्ये । यस्य लोपेन षाडवत्वं तस्य स्वरस्य संपूर्णत्वदशायामल्पत्वम् ; यस्य च लोपेनौडुवत्वं तस्य संपूर्णत्वदशायामल्पतरत्वम् । पञ्चम्यां तु जातौ विपर्यय:-यस्य लोपेन षाडवत्वं तस्याल्पतरत्वम् , यस्य लोपेनौडुवत्वं तस्याल्पत्वमिति । वचनमिति । 'क्रमादल्पाल्पतरते' इत्यनेन न्यायेनाल्पत्वबहुत्वयोरप्राप्तौ सत्यां यद्वचनं स विधिः, अप्राप्तप्रापकत्वात् । द्वयोः प्राप्तावेकस्य वचनं परिसंख्या । तद्वचनमेकस्यातिशयाय | विधिपरिसंख्ययोर्लक्षणमुक्तं भट्टाचार्य:
विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥' इति ॥ -५७-५८-॥
(क०) ग्रहादीनां त्रयोदशानां जातिलक्षणानां प्रत्येकमन्वर्थतया स्वरूपं निरूप्य, तानि षाज्यादिषु सप्तसु शुद्धविकृतान्योन्यसंसर्गजातासु षड्जकैशिक्यादिप्वेकादशसु चेत्यष्टादशसु जातिषु क्रमेण प्रत्येकं यथासंभवं
Scanned by Gitarth Ganga Research Institute