________________
प्रकरणम् ७]
प्रथमः स्वरगताध्यायः
नैषाद्यार्षभिकाषड्जकैशिक्यस्त्रयंशिका मताः । आन्ध्रीकार्मारत्रीषड्जोदीच्यवाचतुरंशिकाः ॥ २६ ॥ पञ्चांश रक्तगांधारी गांधारी मध्यमा तथा । पाड्जीत्येताश्चतस्रः स्युः पर्डशैकैव कैशिकी ॥ २७ ॥ सप्तांशा सूरिभि: पड्जमध्यमा परिकीर्तिता । इति त्रिपष्टिरंशाः स्युर्जातिष्वष्टादशस्त्रिमे ।। २८ ।।
१७९
मध्यमौ ; पञ्चम्यामृषभपञ्चमौ | त्र्यंशिका मता इति । नैपाद्यार्षभिकाषड्जकैशिक्यस्त्र्यंशिकाः । तत्र नैषाद्यां निषादषड्जगांधारास्त्रयो ऽंशा: ; आर्षभ्यामृषभ निषादधैवताः ; षड्जकैशिक्यां षड्जगांधारपञ्चमाः । चतुरंशिका इति । आन्ध्रीकार्मारवीषड्जोदीच्यवाश्चतुरंशिकाः । तत्रान्धयामृषभगांधारपञ्चमनिषादाश्चत्वारो ऽंशा:; कार्मारव्यामृषभपञ्चमधैवतनिषादाः ; षड्जोदीच्य वायां षड्जमध्यमधैवत निषादाः । पञ्चांशा इति । रक्तगांधारीगांधारीमध्यमाषाड्ज्यश्चतस्रः पञ्चांशाः । तत्र रक्तगांधार्यो सगमपनिषादाः पञ्चांशाः ; गांधार्यामपि तद्वत्; मध्यमायां सरिमपधाः; पाड्ज्यां सगमपधाः । पडंशेति । एकैव कैशिकी षडंशा । तत्रर्षभव्यतिरिक्ताः षट् स्वरा अंशाः । सप्तांशेति । षड्जमध्यमा सप्तांशा । तस्यां षड्जादयः सप्त स्वरा अंशाः स्युः ॥ - २४ --२८॥
(सु०) अंशान्संख्याति - एकांशा इति । नन्दयन्तीमध्यमोदी च्यवागांधारपञ्चमीष्वेक एको ऽंशः ; धैवतीगांधारोदीच्यवापञ्चमीषु द्वौ द्वावंशौ ; नैषाद्यार्षभीषड्जकैशिकीषु त्रयस्त्रयो ऽंशाः ; आन्ध्रीकार्मारवीषड्जोदीच्यवासु चत्वारश्चत्वारो Sशाः ; रक्तगांधारी गांधारीमध्यमाषाड्जीषु पञ्च पञ्चांशाः ; कैशिक्येकैव षडंशा ; षड्जमध्यमा सप्तांशा । एवमष्टादशसु जातिषु त्रिषष्टिरंशा भवन्ति । इयं तु संख्या जातीनां संपूर्णत्वे । षाडवत्वे तु सप्तचत्वारिंशदंशा भवन्ति । तदुक्तं
Scanned by Gitarth Ganga Research Institute