SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १६६ संगीतरत्नाकरः [वर्णालंकार चतु:स्वरा समकला तदा स्यादवलोकितः ॥ ५२ ॥ सगममरिस रिमपपगरि गपधधमग मधनिनियम । (२५) एवं संचार्यलंकारा आरोहेण प्रदर्शिताः । yataraण प्राह श्रीकरणाग्रणीः ॥ ५३ ॥ इति संचार्यलंकारा: । अन्ये ऽपि सप्तालंकारा गीतज्ञैरुपदर्शिताः । तारमन्द्रप्रसन्नश्च मन्द्रतारम सन्नकः ॥ ५४ ॥ आवर्तकः संप्रदानो विधूतोऽप्युपलोलकः । उल्लासितश्चेति तेषामधुना लक्ष्मं कथ्यते ॥ ५५ ॥ कलास्तेषां द्वितीयाद्याः पूर्वेकैकप्रहाणतः । अष्टमस्वरपर्यन्तमारुह्याद्यं व्रजेद्यदि ॥ ५६ ॥ तारमन्द्रप्रसन्नो ऽयमलंकारस्तदोच्यते । संरिगमपधनिससं । (१) मन्द्रादष्टममुत्प्लुत्य सप्तकस्यावरोहणे ॥ ५७ ॥ यदा चतु:स्वरा समालंकारस्य कला ऽऽरोहे ऽवरोहे च द्वितीयस्वरं परित्यजति तदा ऽवलोकिताख्यो ऽलंकारः ॥ ५२ ॥ एवमिति । एवमनेन प्रकारेण संचार्य - लंकारा आरोहेण कथिताः । एताञ्श्रीकरणाग्रणीः शार्ङ्गदेवो ऽवरोहेणापि प्राह कथितवान् ॥ ५३ ॥ इति संचार्यलंकाराः ॥ गीतज्ञैः प्रदर्शिता लोकप्रसिद्धानन्यान्सप्तालंकारान्कथयति - अन्ये ऽपीति ॥ ५४, ५५ ॥ लाघवार्थं सर्वेषां साधारणं लक्षणमाह- कलास्तेषामिति । एतेषां प्रथमकलालक्षणमेव वक्ष्यति— द्वितीयस्वराद्याः पूर्वैकैकस्वरपरित्यागात्कला ज्ञातव्याः || ५५ ॥ तारमन्द्रप्रसन्नादि विशदयति-- अटमस्वरेति । प्रथमस्वरमारभ्याष्टमस्वरपर्यन्तमारोहेण गीत्वा प्रथमस्वरं यदि गायेत्तदा तारमन्द्रप्रसन्नाख्यो ऽलंकारः ॥ - ५६, ५६ ॥ मन्द्रतारप्रसन्नं Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy