________________
१२६ संगीतरत्नाकरः
[ग्राममूर्च्छनाधैवतादेस्तु पौरव्याश्चत्वारः षट्स्वराः क्रमात् । तत्तानानां तु साशीतिः शताष्टाविंशतिर्मता ॥ ५५ ॥
औड्डवानां चतुर्णा प्रागुक्ता संख्या चतुःस्वरौ । त्रिस्वरौ द्विस्वरावेकस्वरः प्रागुक्तसंख्यकाः ।। ५६ ।। पञ्चविंशतिसंयुक्ता चतुस्त्रिंशच्छती त्वियम् । तानानां सदृशाकारा स्यात्तानेरौत्तरायतैः ।। ५७ ।। इत्येकाशीतिसंयुक्तं सहस्राणां चतुष्टयम् । तानानां पुनरुक्तानां पूर्णापूर्णैः सह क्रमैः ।। ५८ ॥
(क०) धैवतादेस्तु पौरव्या इति । अत्र धैवतस्य ग्रामभेदकत्वं नाशङ्कनीयम् , तस्योपलक्षणतया पूर्वमभेदकत्वप्रतिपादनात् ॥ ५५-५७ ॥
(सु०) पुनरपि पुनरुक्तान्गणयति धैवतादेरिति । मध्यमग्रामे षष्ठी मूछना धैवतादि: पौरवी । तस्या निषादगांधारयुक्तत्वात्षट्स्वराश्चत्वारः क्रमा भवन्ति । प्रतिक्रमं च सप्त शतानि विंशत्युत्तराणि | चतुर्णी क्रमाणामशीत्यभ्यधिकान्यष्टाविंशतिः शतानि भेदाः पुनरुक्ताः । सर्वत्र भेदकं पञ्चमं विनेत्यनुषङ्गो योज्यः । तस्या एव पौरव्या औडुवाः पञ्चस्वरा निषादगांधारयुक्तत्वाच्चत्वारः क्रमाः । तेषां प्रागुक्ता संख्या ऽशीत्यभ्यधिका चतुःशती। चतु:स्वरौ द्वौ क्रमौ निषादयुक्तत्वात् । तयोरष्टाचत्वारिंशद्भेदा भवन्ति । त्रिस्वरौ निषादयुक्तत्वाद् द्वौ क्रमौ । तयोर्वादश भेदाः । द्विस्वरावपि निषादयुक्तत्वाद् द्वौ क्रमौ । तयोश्चत्वारो भेदाः । एकस्वरस्त्वेक एव । एवं पञ्चविंशतिसंयुक्तानि चतुस्त्रिंशच्छतानि सदृशाकाराणि पुनरुक्तानि भवन्ति । कैः सह पौनरुक्त्यम् ? अत आह-औत्तरायतैरिति । उत्तरायता षड्जग्रामे तृतीया मूर्च्छना धैवतादिः । तत्संबन्धिभिः कूटतानैः सह पौनरुक्त्यमित्यर्थः ॥ ५५-५७ ॥
(क०) पूर्णापूर्णैः सह क्रमैरिति । तत्र पूर्णाः क्रमाः प्रथमादिस्वरारम्भादित्यादिना लक्षणेन निप्पन्ना द्वानवतियुतशतत्रयसंख्याकाः ।
Scanned by Gitarth Ganga Research Institute