________________
१२४ संगीतरत्नाकरः
[ग्राममूर्च्छनातानास्त्रिस्वरयोस्त्वेते द्वादश द्विस्वरे द्वयम् । एक एकस्वरस्ते त्रिपष्टिरौत्तरमन्द्रकैः ।। ५१ ।। पुनरुक्ता मतास्तानैादिमार्गीक्रमाः पुनः । पञ्चस्वरा ये चत्वारस्तत्तानानां चतुःशती ॥ ५२ ।। अशीत्यभ्यधिका चातुःस्वरी पण्णवतिर्भवेत् । द्वादश त्रिस्वरद्वंद्वे चत्वारो द्विस्वरद्वये ॥ ५३ ॥ एक एकस्वरस्तानस्तेषां पञ्चशती त्वियम् ।
त्रिनवत्या युता तानैरभिन्ना रजनीगतैः ॥ ५४ ॥ हितत्वात् । मौला मुले भवाः, शुद्धा इत्यर्थः । चतुर्दशैव ; अत्रान्ययोगव्यवच्छेदार्थमवधारणम् । अयमभिप्रायः– यद्यपि निगयोः काकल्यन्तरावस्थाssपत्त्या मूर्च्छनाभेदकत्वं तथा ऽप्येकैकस्वरयोस्तयोः स्वरान्तरयोगमन्तरेण स्वगतसूक्ष्मभेदस्यालक्ष्यमाणत्वाच्छुद्धयोरेव गणना, न काकल्यन्तरयोरिति । यदा पुनः षड्जग्रामे मध्यस्थानस्थितषड्जस्थान एव निषादाद्यारम्भेण रजन्यादयो मूर्च्छना भवेयुरिति तथा मध्यमग्रामे मध्यस्थानस्थितमध्यमस्थान एव गांधाराद्यारम्भेण हारिणाश्वादयो मुर्छना भवेयुरिति च पक्षः, तदा ग्रामयोर्भेदकपञ्चमाभावे ऽपि मर्छनानां स्थानभेदस्य विद्यमानत्वात्कूटतानपौनरुक्त्याभाव एव । यदा पुनमियोर्मूर्च्छनानां तदधोऽधःस्थस्वरारम्भपक्षस्तदा तु मध्यमग्रामीणानां शुद्धमध्यामार्गीपौरवीगतानां तानानां षड्जग्रामीणैरुत्तरमन्द्रारजन्युत्तरायतागतैर्यथायोगं पट्स्वरादिभिस्तानैः सह स्थानभेदाभावाद्भेदकपञ्चमाभावेन पौनरुक्त्यं निश्चित्य तत्र शुद्धाश्रयत्वेन प्रथमोक्तान्पाड्जग्रामिकान्गणनायां संस्थाप्य तदपेक्षया पुनरुक्तान्माध्यमग्रामिकानपनेतुं तान्परिगणयति-पड्जादेः शुद्धमध्याया इत्यादिना ।
Scanned by Gitarth Ganga Research Institute