________________
८८
संगीतरत्नाकर:
[० स्वरजाति०
मन्द्रमध्यताराख्यस्थानभेदात्त्रिधा मताः । तएव विकृतावस्था द्वादश प्रतिपादिताः ।। ३९ ।। च्युतो ऽच्युतो द्विधा षड्जो द्विश्रुतिर्विकृतो भवेत् । साधारणे काकलीत्वे निषादस्य च दृश्यते ॥ ४० ॥ साधारणे श्रुति पाइजीमृषभः संश्रितो यदा । चतुःश्रुतित्वमायाति तदैको विकृतो भवेत् ॥ ४१ ॥
करुणा ; द्वितीया रञ्जनीजातिका मध्या; तृतीया रतिजातिका मृदुः । गांधारे प्रथमा श्रुती रौद्रीजातिका दीप्ता; द्वितीया क्रोधाजातिका ऽऽयता । मध्यमे प्रथमा श्रुतिर्वत्रिकाजातिका दीप्ता ; द्वितीया प्रसारिणीजातिका ऽऽयता ; तृतीया प्रीतिजातिका मृदुः ; चतुर्थी मार्जनीजातिका मध्या । पञ्चमे प्रथमा श्रुतिः क्षितिजातिका मृदुः ; द्वितीया रक्ताजातिका मध्या; तृतीया संदीपनीजातिका ssयता ; चतुर्थ्यालापिनीजातिका करुणा । धैवते प्रथमा श्रुतिर्मदन्तीजातिका करुणा ; द्वितीया रोहिणीजातिका ऽऽयता ; तृतीया रम्याजातिका मध्या । निषादे प्रथमा श्रुतिरुप्रजातिका दीप्ता ; द्वितीया क्षोभिणीजातिका मध्येति । ननु किं श्रुतिजातिनिरूपणेन प्रयोजनम् ? उच्यते - तत्तजातिकां श्रुतिं श्रुत्वा मनसो नामसाम्येन तथा तथा विकार उत्पद्यत इति सूचयितुं श्रुतिजातिनिरूपणम् । ततश्च दीप्तां श्रुतिमाकण्र्य मनसो दीप्तत्वमिव भवति; आयतां श्रुतिमाकर्ण्यायतत्वमिव ; एवं करुणत्वादि ज्ञातव्यम् ॥ - २५-३८ ॥
1
(क०) प्रसङ्गाच्छुतिजातीरुक्त्वा प्रकृतस्वरपरामर्शपूर्वकं स्थानभेदात्तेषां त्रैविध्यमाह--- ते मन्द्रेति । ननु च्युतादयः पृथक्स्वराः स्युः ; किं तेषामवस्थाऽन्तरापन्नषड्जादित्वकल्पनयेत्यत आह-त एवेति । द्वादशेति ॥ षड्जमध्यमग्रामद्वयापेक्षया क्रमप्राप्तान्विकृतस्वरालक्षयति - च्युतो ऽच्युत इत्यादिना । चतुःश्रुतिः षड्जो द्विश्रुतिर्विकृतः संश्चयुतो ऽच्युत इति द्विधा भवेत् । स च साधारणे स्वसाधारणे च्युतः, निषादस्य काकली
――
Scanned by Gitarth Ganga Research Institute