________________
-०रसा: ३] प्रथमः स्वरगताध्यायः व्यपदेशभेदमाहे-नादो ऽतिसूक्ष्म इति ॥ नादशब्दस्य योगतो निरुक्तिमाह-नकारमिति । प्राणनामानं प्राण इति नाम यस्यासौ प्राणनामा, तम् । एतेन मन्त्रशास्त्रानुसारतो बीजाक्षराणां तत्तद्देवताताद्रप्यापत्त्या ऽत्र नकारदकारौ प्राणाग्नी इत्युक्तं भवति । विदुः, मान्त्रिका इति शेषः । जात उदितः, अभिव्यक्त इति यावत् । उक्तपञ्चविधनादस्याप्यविशेषेण गीतोपयोगित्वे प्राप्ते, हृत्कण्ठमूर्धस्थानेष्वेव श्रुतिपदनाडीसद्भावात्तत्रत्यस्यैव नादत्रयस्य गीतोपयोगित्वम् ॥ ३-६ ॥
(सु०) नादोत्पत्तिप्रकारमाह-आत्मेति । वक्तुमिच्छन्विवक्षमाण आत्मा मनो ऽन्तःकरणं प्रेरयते । तदन्त:करणमात्मप्रेरितं सद्देहस्थमुदर्यमग्निमाहन्ति ताडयति । स वह्निर्मारुतं वायु प्रेरयति ॥ स पूर्व ब्रह्मप्रन्थिस्थितस्तेन वह्निना प्रेरितः सन्नूर्ध्वमार्गे गच्छन्नाघातेन नाभिहृदयकण्ठमूर्धमुखेषु ध्वनि प्रकटयति । ऊर्ध्वपथ इति प्रकृतगानोपयोगार्थम्, अधो ऽप्यनाहतस्य नादस्योत्पत्तेः; तदुक्तम्
'कंदस्थानसमुत्थो ऽपि समीर: संचरन्नधः ।
ऊर्ध्वं च कुरुते सर्वान्नादान्मूर्धनि तूद्रतान् ।' इति ॥ पञ्चविधस्य नादस्य संज्ञाः कथयति-नाद इति । सूक्ष्मो ऽतिसूक्ष्मः पुष्टो ऽपुष्ट: कृत्रिम इत्ययमेव क्रमो ज्ञातव्यः । ग्रन्थान्तरे तु पुष्टापुष्टयोळक्तो ऽव्यक्त इति नामनी । तथा चोक्तं मतङ्गेन
'सूक्ष्मश्चैवातिसूक्ष्मश्च व्यक्तो ऽव्यक्तश्च कृत्रिमः । सूक्ष्मनादो गुहावासी हृदये चातिसूक्ष्मकः ॥ कण्ठमध्यस्थितो व्यक्तश्चाव्यक्तस्तालुदेशगः ।
कृत्रिमो मुखदेशे तु ज्ञेयः पञ्चविधो बुधैः ॥' इति ॥ नादशब्दव्युत्पत्तिं कथयति-नकारमिति । नामलिङ्गानुशासनविदो नकारं प्राणनामानं विदुर्दकारं चाग्निम् । नदाभ्यां जात इत्यण्प्रत्यये जाते,
Scanned by Gitarth Ganga Research Institute