SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सङ्गीताध्याये चतुर्थः पादः । अकम्पाः कम्पसंयुक्ताः सफम्पाः कम्पचर्जिताः । यस्तच्छृणोति मूहात्मा तावुभौ ब्रह्मघातकी ॥ ८५॥ विष्णुरूपो भवेत्तालो नादव शिवात्मकः । । प्रणवो अमत्याहुर्गीतशास्त्रविशारदाः॥ ८६ ॥ तालं धृत्वा प्रमाणेन पश्चागीतं समारभेत् ।। तथा नादं प्रकुर्वीत पश्चाद्रीतं प्रगीयते ॥ ८७॥ अनेनैव प्रकारेण गीतमाकर्णयेम॒वम् । । तस्य नाभावदोषोऽस्ति महापातकतत्समः (१) ॥८८॥ श्रुतिहीनं च यद्गानं वीणावेण्यादिसम्भवम् । 'यः शृणोति स आमोति पातकं दुःलमेव च ॥९॥ अपखरं कुनादं च श्रुतिहीनं तयाधिकम् । ' यः शृणोति स भूदास्मा पतते नरके चिरम् ॥१०॥ शोकसन्तापदारित्र्यमायुः क्षीणं भवेद्धवम् । : राज्यनाशो मनोदुःखं भवत्येव न संशयः ॥ ९१॥ ज्ञात्वा सर्वमिदं शासं यः शृणोति सदा नृपः । आयुरारोग्यमैश्वर्यं लभते वाञ्छितं फलम् ॥९२॥ इति श्रीनारदकृतौ सङ्गीतमकरन्दे तृतीय-. . पादः समाप्तः सङ्गीताध्याये चतुर्थः पादः। अथ मृदङ्गलक्षणम् । - दक्षिणाङ्गे सितो रुद्र उमा वामें प्रतिष्ठिता। : .. शिवशक्तिमयो नावो मर्दले परिकीर्तितः॥१॥ शिवनादे भवेद्याषिः शतंया दारिद्यमामुयात् । - द्विर्नादयुक्तः श्रेष्ठम श्रुतियुक्तश्च मईले ॥२॥ सीध्वनिः पुरुषाकारः सयाकारश्चैव पुंखरः। आयुर्लक्ष्मीहरौ नित्यमश्राव्यौ तावुभौ ध्वनी ॥३॥...
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy