SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ . .. 'सङ्गीतमकरन्दे सङ्गीताध्याये तृतीयः पादः। ... अथ रागनामान्युच्यन्ते। .. श्रुत्यनन्तरभावी यः लिग्धोऽनुरणनात्मकः । खरो रन्जयति श्रोतृचित्तं स खर उच्यते॥१॥ खरग्रामो मूर्छनाश्च तथा तानानि वृत्तयः।... पुष्पसाधारणा वर्णा बलकाराश्च धावतः (१) ॥२॥ श्रुतयो जातयश्चैव विधिज्ञा खरशासनः। गातव्यः समयो योज्यं वीणायां समुदाहृतः॥३॥ खरग्रामे तथा ताना जात्यः साधारणक्रियाः।' . अलकाराश्च वर्णाश्च जातयश्च शरीरतः॥४॥ सुखोपविष्टं वरदं ब्रह्माणं ज्ञानसागरम्।। कृताञ्जलिपुटो भूत्वा नारदः परिपृच्छति ॥५॥ कति रागाः प्रगातव्याः प्रभाते सस सुखराः। . तथैव कति रागाश्च केनात्र प्रतिपादिताः॥६॥ कस्मिन् काले प्रगातव्यं वायं चैव शुभाशुभम् । नारदस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः ॥७॥ साधु साधु महातेजा यत्त्वं मां परिपृच्छसि। तत्सर्व संप्रवक्ष्यामि रागवेलाविनिर्णयम् ॥८॥ यत्सुरैस्तन्न विज्ञातं नरकिन्नरनायकैः।। देशीरागरहवं च साम्प्रतं शृणु यत्नतः ॥९॥ अथ सूर्याशः। गान्धारो देवगान्धारो घनासी सैन्धवी तथा।। नारायणी गुर्जरी च बङ्गालपल(ट)मञ्जरी ॥१०॥ ललितान्दोलश्रीका सौराष्ट्रयजयसाक्षिको। महारः सामवेदी च वसन्तः शुद्ध भैरवः ॥११॥ १ 'धातवः' इति समीचीनः पाठः स्यात् । २ 'जात्यसाधारणक्रिया' इति पाठः शुद्धः स्यात् ।'
SR No.034225
Book TitleSangit Makarand
Original Sutra AuthorN/A
AuthorNarad, Mangesh Ramkrishna Telang
PublisherCentral Library
Publication Year1920
Total Pages94
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy