SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 नृ० १० -उल्लास १, परीक्षण १ [ आङ्गिकनृत्येक्रमे शिरोवेदाः द्विःप्रयुक्त कम्पितं स्यात् शनैराकम्पितं शिरः । पुरस्पवस्तुनिर्देशचित्तस्थार्थप्रकाशने । संज्ञायामुपदेशे च 'प्रश्ने चावाहने तथा ॥ ॥ इत्याकम्पितम् ॥ ७ ॥ * ऊर्ध्वाभिमुखमुत्क्षिप्तं मस्तकं विनियुज्यते । दर्शनेऽनुगवस्तूनां चन्द्रादिव्योमचारिणाम् ॥ दिव्यास्त्राणां प्रयोगे च विचारेऽर्थस्य वेष्यते । इदमेवाल्पमुत्क्षिप्तमुद्वाहित 'मितीतरे ॥ ॥ इत्युत्क्षिप्तम् ॥ ८ ॥ * 'अधोगतं स्यादन्वर्थं दुःखे लज्जाप्रणामयोः ॥ ॥ इति अधोगतम् ॥ ९ ॥ लोलितं मन्दमन्दं स्यात् सर्वदिक्षु विलोलनात् । निद्रागद ग्रहावेशमदमूर्च्छासु तन्मतम् ॥ ॥ इति लोलितम् ॥ १० ॥ *. उत्क्षिप्तांसं किञ्चिदिव तिर्यग्ग्रीवं निहञ्चितम् । एतद्विलासे विब्बो ललिते किलकिञ्चिते ॥ माने मोहायिते गर्ने स्तम्भे कुट्टमिते स्थिते । विलासो ललिता चेष्टा विशिष्टागमनादिका ॥ विब्बोको वाञ्छितार्थस्य लाभे गर्वादनादरः । अङ्गानां सौकुमार्य यल्ललितं तदुदाहृतम् ॥ हर्षक्रोधाभिलाषादेः सांकर्ये किलकिञ्चितम् । मानः प्रणयजो रोषः प्रिये तज्ज्ञैरुदाहृतः ॥ कान्तस्तुतिकथालापलीलाहेलादिदर्शने । तद्भावभावनं स्त्रीणामुक्तं मोहायितं स्फुटम् अहंभावः स्मृतो गर्वः स्त्रीणामभ्यासमागमे । स्तम्भः परामुखीभावः प्रियेऽनुनयतत्परे ॥ सौख्यानुभावेऽप्यधरस्तन केशग्रहादिषु । बाह्य दुःखानुभावो यः सोऽत्र कुद्दमितं मतः ॥ ४८५ ४८६ ४८७ ४८८ ४८९ ४९० ४९१ ४९२ ४९३ ४९४ ४९५ ४९६ 1 ABO पृन । 2 ABO वाहिता । 3 ABO अधोमतं । 4 ABC प्रमाणयोः । of. • प्रणामयोः सं. र. अ. ७ श्लो. ७३ ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy