SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ११२ नृ० ८० को०- उल्लास २, परीक्षण १ एतद्विपर्ययात्प्रत्यालीढं रुद्राधिदैवतम् । संघानीकृतशस्त्रस्य प्रत्यालीढेन मोचनम् ॥ ॥ इति प्रत्यालीढम् ॥ ६॥ * प्राचां चतुर्णामेतेषां प्रयोगो नाव्यन्नृत्तयोः । नाट्यैकगोचरस्तज्ज्ञैरन्त्ययोः परिदृश्यते । नर्तने स्थानषस्य केचित् पञ्चविधेऽभ्यधुः || ॥ इति षट्पुरुषस्थानकानि ॥ [ स्त्रीस्थानकानि । ] आयतं स्थानकं तत्तु यत्र तालान्तरे स्थितः । वामयत्रो दक्षिणश्च समो वक्षः समुन्नतम् ॥ प्रसन्नं वदनं हस्तो नितम्बे दक्षिणोऽपरः । समः समुन्नता चात्र कटी पद्माधिदैवतम् ॥ एतदाभाषणे कार्ये सखीप्रियतमादिभिः । कर्तुं समीह (हि) तासु स्यात् कृ ( ? क्ष ) तासु च गतिष्विदम् ॥ रङ्गावतरणारम्भे पुष्पाञ्जलिविसर्प ( ? )ने । आवाहने विसर्गे च तर्जने प्रतिषेधने ॥ मानावलम्बने गर्वे गाम्भीर्येऽमर्षकर्मणि । ईर्ष्याभिलाषप्रभवे स्त्रीणामङ्गुलिमोटने ॥ एतत् स्त्रीस्थानकं कार्यं प्रवेशे पुरुषैरपि । केचनोचुः' स्त्रीभिरेव पूर्वरङ्गे प्रयुज्यते ॥ प्रविष्टेष्वपि पात्रेषु त्वभिनेयानभि (१ ति) क्रमात् । एतत् स्थानं प्रयोक्तव्यमिति केचन मन्वते ॥ इदं स्थानं प्रयुज्याथ रङ्गावतरणादयः । कर्तव्या हस्तपादादिप्रचारे रुचिरैर्युताः ॥ ॥ इत्यायतम् ॥ १ ॥ * [ स्त्रीस्थानकानि एतत्पादविपर्यासादवहित्थं प्रकीर्तितम् । दुर्गाधिदैवतं चैतदवहित्थस्य सूचकम् ॥ स्वाभाविके च संलापे तुष्टौ चिन्ताविचारयोः । 1 ABO केचनोयू । ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy