SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ २४ काव्यादर्शनामसंकेत समेतः [ २ द्वि० उल्लास ] गूढं यथाश्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ॥ उपदिशति कामिनीनां यौवनमद एव ललितानि ॥ १० ॥ अत्रोपदिशैतीति । तदेषा कथिता त्रिधा ॥ १३॥ अव्यङ्गथा, गूढागूढव्यङ्गया च । तद्भूर्लाक्षणिक, शब्द इति संबध्यते । तद्भस्तदाश्रयः । 5 तत्र व्यापारो व्यञ्जनात्मकः । आर्द्रवितर्दकत्वसादृश्याद् उद्गमं लक्षयता उच्छृङ्खलत्वस्पृहणीयत्वादि ध्वन्यते ॥ 10 उपदिशतीति । यौवनमदस्य अचेतनत्वाद् उपदेशेन असंभवत्स्वार्थेन मर्यादोल्लङ्घनापकत्वादि सारूप्याद् यौवनमदं लक्षयता शिक्षादानलक्षणं वस्तुव्यङ्ग्यमभिधेयवद् अतिस्फुटतया प्रतीयते । एवं यत्र उत्तानेनैव रूपेण व्यङ्ग्यस्य प्रयोजनस्य अनिगूढता तत्र अगूढत्वं यत्र तु व्यञ्जकत्वकृतं महत्सौष्ठवमस्ति, अशब्दान्तरवाच्यस्य प्रयोजनस्य निधानवद् गूढतया प्रतीतिस्तत्र गूढत्वम् ।। 15 अव्यङ्गति । यत्र प्रयोजनं मूलत एव नास्ति, भवति उपचारस्तत्र । यथा कर्मणि कुशलः । लावण्यं आनुलोम्यं प्रातिलोम्यमिति । न यत्र प्रयोजनं किंचिद् उद्दिश्य लक्षणामवृत्तिः 'लावण्णुज्जलगु घरि ढोल्लु पट्टा' इत्यादौ तु प्रतीयमानार्थावगतिर्न लावण्यशब्दात् किंतु समस्तवाक्यार्थप्रतीत्यनन्तरं ध्वननव्यापारादेवात्र हि प्रियस्यैव समस्ताशाप्रशासकत्वं ध्वन्यते । गूढागूढे 20 व्यये यस्यां सा तथा ॥ १३ ॥ ' साक्षात्संकेतितम् ' इत्यादिना वाचकः शब्दः प्रविभक्तस्तस्य यो मुरूयोऽर्थस्तेन सह लक्ष्यमाणस्यार्थस्य संबन्धो दृष्ट इति तद्द्वारेण शब्दात् तस्यावगतिरिति मुख्यार्थबाधा दिसह कार्यपेक्षार्थ भासनशक्तिलक्षणा शक्तिः । तदाश्रयं लाक्षणिकं शब्दमाह - तद्भूरिति ॥ 25 ननु, लक्षणाव्यापारादन्यो यः प्रयोजनव्यञ्जनात्मा व्यापारः सोऽपि लक्षणाव्यापार एवास्तु, कथमुक्तं प्रयोजनं हि व्यञ्जनव्यापारगम्यमेवेत्याह तत्र व्यापार इति । लक्षणा तावद् अमुख्यार्थविषयो व्यापारः, ध्वननं च प्रयोजनविषयम् ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy