________________
[ १०. ६० उल्लासः ]
काव्यप्रकाशः
चनमुना वाक्येन समुनीयते । न चैतत्काव्यलिङ्गम । उत्तरस्य ताद्रूप्यानुपपत्तेः । न हि प्रश्नस्य प्रतिवचनं जनको हेतुः । नापीदमनुमानम् । एकधर्मिनिष्ठतया साध्यसाधनयोर निर्देशादित्यलंकारान्तरमेवोत्तरं साधीयः ।
मादनन्तरं लोकातिक्रान्तगोचरतया यदसंभाव्यरूपं प्रतिवचनं स्यात् तदपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् । उदाहरणम्
काविसमा देगे कि लद्ध जं जणो गुणग्गाही । किं सुक्ख सुकलत्तं किं दुर्गिझं खलो लोओ ||५३०॥ प्रश्नपरिसंख्यायामन्यव्यपोह एव तात्पर्यम्, इह तु वाच्य एव विश्रान्तिरित्यनयोर्विवेकः ।
कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ॥१२२॥ धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते ।
कुतोऽपि आकारादिङ्गिताद्वा । सूक्ष्मस्तीक्ष्णमतिसंवेद्यः । उदाहरणम्
-
३२१
एकाकिनी यदबला तरुणी तथाह
मस्मिन् गृहे गृहपतिश्च गतो विदेशम् ।
किं . याचसे तदिह वासमियं वराकी
मान्धबधिरा ननु मूढ पान्थ ॥
- अत्र ' मम निवासो दीयताम्' इति प्रश्न उत्तरादुन्नीयते ॥ एतदिति उत्तराभिधानमलंकरणम् || उत्तरस्येति प्रतिवचनस्य ॥ तद्रूपतेति काव्यलिङ्गतानुपपत्तेः ॥ अत्रैव हेतुमाह - न हीति ॥ एकधर्मीति । प्रश्नो अन्यत्र प्रतिवचनं चान्यत्रेति । अनयोश्चेति प्रतिवचनयोः ||
5
10
15
20
' का विसमे 'ति अत्र दैवगत्यादि निगूढत्वाद् असंभावनीयमसत्कृत्प्रश्नपूर्वकमुत्तरं निबद्धम् ॥ न चेयं परिसंख्या, व्यवच्छेद्यव्यवच्छेदकयोरत्र अभावात् - 25 इत्याह- प्रश्नपरिसंख्यायामिति । इह प्रश्नाद् उत्तरमात्रं, नान्यव्यपोहः ॥ [ ४२ ॥ ] कुशाग्रीयमतिभिराकारेङ्गिताभ्यां संलक्षितस्यार्थस्य विदग्धं प्रति प्रकाशनं यत् तत् सूक्ष्मावगमकारणात् सूक्ष्ममलंकारः ॥
દર્