SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [१० उल्लासः ] वाच्यस्यैव चमत्कारित्वात् । शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ ५॥ चित्रमिति गुणालंकारयुक्तम् । अव्यङ्गयमिति स्फुटप्रतीयमानार्थरहितम् । अवरमधमम् । यथास्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानादिकादाय वः। भिधादुद्यदुदारदर्दुरदरीदीर्घादरिद्रुमद्रोहोद्रेकमहोमिमेदुरमदा मन्दाकिनी मन्दताम् ॥ ४ ॥ "विनिर्गत मानदमात्ममन्दिराद भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्रमेन्द्रद्रुतपातितार्गला निमीलिताशीव भियामरावती ॥५॥ . 10. ' काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः ॥ १ ॥ तदपेक्षयेति । नागतेति व्यङ्गयस्यार्थस्य मलिना मुखच्छायेत्यनयोक्त्यैव विषयीकृतत्वमिति व्यङ्ग्याद् वाच्यमेव सातिशयम् । ___ यच्च रसभावादि व्यङ्गयार्थशून्यं केवलवाच्यवाचकवैचित्र्यमानं तच्चित्रं 15 काव्यमित्याह- शब्दचित्रमिति । विस्मयकृद् वृत्तादिवशात् , न तु सहृदयचमत्कारकारिरसनिष्यन्दमयमित्यर्थः । काव्यानुकारित्वाद् वा चित्रं लेख्यमात्रत्वाद् वा कलामात्रत्वाद् वा । तदुक्तम्- . प्रधानगुणभावाभ्यां व्यङ्गयस्यैवं व्यवस्थितेः। काव्ये उभे ततोऽन्यद् यत् तच्चित्रमभिधीयते ॥ ____ 20 एनच्च विशृङ्खलगिरां कवीनां रसादितात्पर्यमनपेक्ष्यैव काव्यप्रवृत्तिदर्शनात परिकल्पितम् ॥ स्फुटप्रतीयमानेति । यदा रसभावविवक्षाशून्यं कविः शब्दार्थालंकारमुपनिबध्नाति तदा तद्विवक्षया रसादिशून्यतार्थस्य परिकल्प्यते विवक्षोपारूढ एव हि काव्ये शब्दानामर्थः ॥५॥ भट्टसोमेश्वरविरचिते काव्यादर्शे काव्यप्रकाशसंकेते 25 प्रथम उल्लासः॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy