________________
[:१० ० उल्लासः ] काव्यप्रकाशः ।
येथा वाहरवन्न विषमदृष्टिहरिवन विभो विधूतविततवृषः । रविवन्न चौपि दुसहकरतापितभूः कदाचिदसि ॥ ४६८ ।। अत्र तुल्यार्थे वतिः । विषमादयश्च शब्दाः श्लिष्टाः । नित्योदितप्रतापेन त्रियामामीलितपमः।
भास्वतानेन भूपेन भास्वानेष विनिर्जितः ॥ ४६९॥ यथा वास्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं · बिम्बप्रभाधरमकृत्रिमहृधगन्धम् । यूनामतीव पिबतां रजनीषु यत्र
तृष्णां जहार मधु नाननमङ्गनानाम् ॥ ४७० ॥ . 'अवार्थतुल्यादीनां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षिप्तत्रोपमा प्रतीयते । 'इत्येवंजातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य. पृथगुपादानेऽन्येऽपि भेदाः संभवन्ति । तेऽ"नयैव दिशा द्रष्टव्याः।
हरवन्न विषमदृष्टिहरिवन्न विभो विधूतविततवृषः ।
रविवन्न चापि दुःसहकरतापितभूः कदाचिदसि ॥ ... 'वृषो धर्मों . दानवविशेषश्च ।' अत्र तुल्यार्थे वतिर्विषमादयश्च शब्दाः श्लिष्टाः। अयमुत्कर्षापकर्षहेत्वोरनुक्तौ चतुर्थों भेदः आथौंपम्ये सति शेषं द्वयं ज्ञेयम् ॥
आक्षिप्तौपम्ये श्लेषव्यतिरेको यथा-'नित्योदिते 'ति । 'भास्वता' इत्यस्य श्लिष्टत्वं, भास्वतेव भास्वतेति भासुरत्वस्यारोपगत्या रवित्वस्य च प्रतिपादनात् । अत्र उदितप्रतापत्वं मीलितप्रभुत्वं चोपमेयोपमानगते उत्कर्षापकर्षहेतू उक्ताविति श्लेषव्यतिरेकान्त्यचतुष्कस्य प्रथमो भेदः ।।
... 'स्वच्छात्मते 'ति । 'मधु कत तृष्णां जहार, न मुखम् ।' अत्र तृष्णाया 25 हरणेऽहरणे च नोपात्तौ हेतुरिति उभयानुपादानाचतुर्थोऽयं भेदः श्लेषव्यतिरेकान्त्यचतुष्कस्य ॥ शेष द्वयमूद्यम् ।। 'एवमन्येष्वपि द्रष्टव्यम् 'इति वचनात् पतिचतुष्कमेकः कश्चिद् भेदो वक्तुं संमत इति 'हरवद्' इति ' स्वच्छात्मता' इति च उदाहरणद्वयं ग्रन्थकाराभिप्रायेण न भवति ॥ पृथगुपादानमिति । यथा
20