________________
[१: ६०. उल्लाला] काव्यप्रकाशः ।
__ माला तु पूर्ववत् ॥९॥ मालोपमायामिवैक्रस्मिन्बहव आरोपिताः। यथासौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्मः
कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः। विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥४२४॥ नियतारोपणोपायः स्यादारोपः परस्य यः ।
तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा ॥९॥ स एव च संदेहसंकरः, इह तु लतायाः सेवनमानुकूल्याद् आरोपितधर्म एवेति रूपकपरिग्रहे साधकमिति न संकरः। एवं बाधकेनापि प्रमाणेन संदेहांशापवर्तनाद् 10 अपरांशप्रतिष्ठायां निरवकाशतैव संदेहस्य, यथा
मधु सुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूश्चुचुम्बे ॥ __ अत्र 'साललतावधरिव मुख इव पुष्पे भृङ्गेण चुम्यते स्म' इति विवक्षायां इच-शब्दद्वयेन वाक्यार्थासंगतिबांधकं प्रमाणं लुतोपमायाः। तथा हि 'मुख इव पुष्पे' इत्यत्र सदस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता पुष्पाश्रिता 15 रस्यतया उपारोहति, तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भाव्यमिति सात्र लताभिधीयते । तस्मात् 'लतेव वधूः' इत्यानसी रूपके पतिपत्तिः, उपमाप्रति पत्तेस्तु अनाअसत्यम् । तथा हि अनोपमेये पुष्पविशेषे मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न साललताया उपयोगोऽस्ति, वध्वा एवं तत्रोपयोगित्वात् । तेन वधरत्र प्रधान, तदुपयोगिनी तु साललता । 'साललतैव वधूः' इत्यनया 20 रूपकच्छायया संगतिरित्यलम् ।। निरवयवस्य तु केवलं मालारूपकं चेति द्वौ भेदौ । तत्र केवलं शुद्धं दर्शितम् ॥
माला स्विति सूत्रम् । यत्रैकं वस्तु अनेकसामान्य उपमीयेत अनेकैरुपमानैरेकसामान्यैरिति यद् मालोपमालक्षणं तदेव मालारूपकस्यापीत्याह-मालोपमा. यामिवेति । ‘रहांसि' रहस्यानि । 'पञ्चशिलीमुखः' भ्रमरः । अत्राष्टौ तरङ्गिण्यादय 25 आरोपिताः, प्रियालक्षणश्च एक एवारोपविषयो मुखादिमिरवयवैर्विनैव तद्धि ण्यादिभी रूपित इति निरवयवत्वं मालासहशत्वाद् मालारूपकम् ॥९२।।