________________
काव्यप्रकाशः।
९न० उल्लासः ]
स्वयं च पल्लवाताम्रभास्वत्करविराजिनी" । इत्यभङ्गः शब्दश्लेषः।
प्रभातसंध्येवास्वापफललुब्धे हितपदा ॥३७७।। इति सभाः शब्दश्लेषश्च । इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दष्लेषत्वमुपपन्नं, न त्वाद्यस्यार्थश्लेषत्वम् । अर्थश्लेषस्य तु स विषयो यत्र शब्दपरिवर्तनेऽपि न श्लेषत्वखण्डना।
"स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।।
अहो यसदृशी "वृत्तिस्तुलाकोटेः खलस्य च ॥३७८॥ . न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः, अपितु श्लेषप्रतिभोत्पत्तिहेतुरुपमा। तथा हि-यथा 'कमलमिव मुखं मनोज्ञमेतत्कच- 10 तितराम'इत्यादौ गुणसाम्ये क्रियासाम्य उभयसाम्ये वोपमा, तथा
. सकलकलं पुरमेतज्जातं संपति "सितांशुविम्बमिव । 'स्वयं चे 'ति। गौरीपक्षे-किसलयवद दीपमानाभ्यां कराभ्यां शोभते। सुखेनाप्तुं
यन्न शक्यं फलं तत्र तु लुब्धानामीहितं प्रददाति ॥ अभङ्गः शब्दश्लेष इति । । योऽर्थश्लेषतया उद्भटस्य संमतः ॥ न त्वायस्येति । ' स्वयं च ' इत्यस्य अभ- 15
गत्वमात्रेण अर्थश्लेषत्वं नोपपत्रमित्यर्थः॥ तर्हि अर्थश्लेषस्य निर्विषयत्वमित्याह-अर्थश्लेषस्येति । अर्थश्लेषः, यथा-'स्तोकेने 'ति । अत्र हि स्तोकोन्नत्या. दीनां शब्दानां स्थाने स्वल्पोच्चैस्त्वादिशब्दा यदि निवेश्यन्ते तथापि नश्लेषत्व
क्षतिः। 'स्वयं च' इत्यत्र तु दीपप्राणिशब्दौ यदि निवेश्येते तदा श्लेषत्व: : कयाऽपि न स्यात् । यच्च श्लेषस्य द्विविधस्य अलंकारान्तराणां प्रतिभोत्पत्ति- 20 हेतुत्वं तेन उक्तं तदपि नैवेत्याह-न चेति ॥ अयमिति । ' स्वयं च' इत्यादिः । अत्र हि श्लेषपतिभोत्पत्तिहेतुरुपमा, श्लेषस्य तु प्रतिमानमात्रेणैवावस्थानम् , उपमैव प्रधानेत्यर्थः । तेन श्लेषाय उपमा, न तु श्लेषेण ॥ - ननु, शब्दसाम्यमेव 'स्वयं च 'इत्यादौ दृश्यते, न त्वर्थसाम्यमित्याशङ्कय शब्दसाम्येऽपि तां समर्थयितुमाह-तथा होति । 'कमलमिव' इति 25 'कचति 'इति दीप्यते । यथात्र मनोज्ञत्वगुणदीपनक्रियासाम्ये. उभयसाम्येवो पमा उद्भटस्यापि संमता, तथा शब्दमात्रसाम्येऽपि दृश्यते, यथा-'सकलकलम्' इत्यादौ शब्दश्लेषतया संमते परस्य । सह कलकलेन वर्तन्ते, सकला कला यस्य च ॥