SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१२ काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः ] प्रसिद्धकथान्तरोपनिबन्ध उपकथा ॥ लम्भकाङ्किता तार्था नरवाहनदत्तादिचरतवद् बृहत्कथा । संस्कृतगद्यपद्याभ्यां साभिप्रायस्वनामपरनामाङ्किता सोच्छ्वासा वासवदत्तादिवत् चम्पूः ॥ अभिनयन् गायन् पठन् यदेको ग्रन्थिकः कथयति तद् गोविन्दवद् आख्यानम् ॥ तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कृत्याकृत्ये निश्चीयेते तत् पश्चतन्त्रादिवत् कुट्टनीमत-मयूरमार्जारादिवच्च निदर्शनम् ॥ यत्र द्वयोविवादः प्रधानमधि- 5 कृत्य सार्धपाकृतरचिता चेटकादिवत् प्रवह्निका ॥ प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानङ्गवत्यादिवद् मन्थल्लिकेत्यादि तु कथाभेद एवेति न पृथगौचित्यमत्रोक्तम् ॥ एवमनिवद्धेषु काव्यभेदेषु मुक्तक-सन्दानितक-विशेषक-कलापक -कुलक-पर्याबन्धेषु कोशादिषु च ॥ एकेन च्छन्दसा वाक्यसमाप्तौ मुक्त[क]म् । अन्येनानालि तिं संज्ञयाङ्केन स्वतन्त्रतया निराकाङ्क्षार्थमपि मुक्तकं, यथा अमरुकस्य ॥ 10 द्वाभ्यां क्रियासमाप्तौ सन्दानितकम् ॥ त्रिभिः विशेषकम् ॥ चतुर्भिः कलापकम् ॥ पञ्चादिभिः कुलकम् ॥ अवान्तरक्रियासमाप्तावपि वसन्ताधेकवर्णनीयोद्देशेनोपनिबन्धः पर्या, सा च कोशेषु स्वपरकृतमुक्तिसमुच्चयलक्षणेषु सप्तशतादिषु पायो दृश्यते ॥ तत्र मुक्तकेषु रसबन्धाश्रयेण दीर्घसमासा रचना, अन्यथा तु कामचारः ॥ सन्दानितकादिषु विकटबन्धौचित्याद् मध्यमसमासा- 15 दीर्घसमासे एव रचने । प्रबन्धाश्रितेषु तु मुक्तकादिषु · त्वामालिख्य' इत्यादिषु यथोक्तप्रवन्धविशेषौचित्यम् । पर्यावन्धे तु असमासा-मध्यमसमासे एव, कदाचिद् रौद्रादिविषये दीर्घसमासायामपि घटनायां परुषा ग्राम्या च वृत्तिस्त्याज्या। परुषोपनागरिकाग्राम्याणां वृत्तीनां चौचित्यं यथाप्रबन्धं यथारसं चानुसतव्यम् । आस्वादयितॄणां हि यत्र चमत्काराविधातस्तदेव रससर्वस्वं, आस्वादायत्तत्वात् । 02 सर्वेषां तु मुक्तकादीनां भाषायामनियमः । सर्गबन्धे तु सतात्पर्य यथारसमौचित्यं, कथामात्रतात्पर्य तु वृत्तिष्वपि कामचारः। सर्गबन्धस्तु संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्धः सुश्लिष्टसंघिमिन्नान्त्यवृत्तसर्गाश्वासादिनिर्मितोऽसंक्षिप्तग्रन्थत्वाविषमबन्धत्वान[ति)विस्तीर्णान्योन्यसंबद्धसर्गादित्वाशीनमस्क्रियावस्तुनिर्देशोपक्रमत्वसुजनदुर्जनचिन्तावदादिवाक्यत्वदुष्करचित्रयमकादिसर्गत्वस्वाभिप्रायस्व नामेष्ट - 25 नाममङ्गलाङ्कितसमाप्तित्वादिशब्दवैचित्र्ययुतो धमार्थकाममोक्षोपायत्वोदात्तनाय - कत्वरसभावनिरन्तरत्वविधिनिषेधव्युत्पादकत्वसुसूत्रसंविधानकत्वनगराश्रमशैलसै. न्यावासार्णवर्तुरात्रिंदिवास्तेिन्दूदयनायकनायिकाकुमारवाहनमन्त्रदूतपयाणसंग्रामाभ्युदयवनविहारजलक्रोडामधुपानमानापगमरतोत्सवादिवर्णनलक्षणार्थ वेचिज्योपेतो रसानुरूपसंदर्भार्थानुरूपच्छन्दस्त्वसर्वजनरञ्जकत्वसदलंकारवाक्यत्वा- 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy