SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ૨૦૦ काव्यादर्शनामसंकेतसमेतः [८ अ० उल्लासः ] सीतावियोगोपनतविशंस्थुलावस्थस्य दाशरथेरियमुक्तिः। 'रक्तो लोहितः । अहमपि प्रबुद्धानुरागः । तत्र च प्रबोधको विभावः पल्लवराग इति मन्तव्यम् । अत्र प्रबन्धप्रवृत्तोऽपि श्लेषः 'सशोके प्रति व्यतिरेकविवक्षया त्यज्यमानो विप्रलम्भोपकारी ॥ अनवसरे त्यागो यथा-'आज्ञा शके 'त्यादौ । अत्र 'न रावणः' 5 इत्यस्मादेव त्यागो युक्त इत्युक्तम् ॥ नातिनिर्वाहो यथाकोपात् कोमललोलबाहुलतिकापाशेन बद्धवा दृढं नीत्वा वासिनिकेतनं दयितया सायं सखीनां पुरः। ... भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं धन्यो हन्यत एव निनुतिपरः प्रेयान् रुदत्या हसन् । -अत्र रूपकमारब्धं न नियूदं च रसपरिपुष्टये । बाहुलतिकायाः पाशत्वेन यदि रूपणं निर्वाहयेत्तयिताब्याधवपूर्वासगृहं कारागारपारादीति तदा रसभङ्गः स्यात् ।। अतिनिर्वहणं यथास्वश्चितपक्षमकवाट नयनद्वारं स्वरूपताडेन । उद्घ[1]ट्य मे प्रविष्टा देहगृहं सा हृदयचौरी ॥ अत्र 'नयनद्वारम् 'इत्येतावदेव सुन्दरमाभिलाषिकवृङ्गारानुगुणम् ॥ निर्वाहेऽप्यङ्गत्वं यथाश्यामास्वङ्गं चकितहरिणीप्रेक्षिते दृष्टिपातान् गण्डच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान् हन्तैकस्थं कचिदपि न ते चण्डि सादृश्यमस्ति । 'उत्पश्यामि 'इति यत्नेनोत्पेक्षे जीवितसंधारणायेत्यर्थः । ' इन्त 'इति कष्टम् । 'एकस्थसादृश्याभावे हि दोलायमानोऽहं कचिदपि धृतिं लभे 'इति ॥ 25 अत्र ह्युत्प्रेक्षायास्तद्वद्भावाध्यारोपाया अनुमाणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय ॥ . निर्वाहेऽप्यनङ्गत्वं यथा- 'न्यश्चत्कुचितमुत्सुकम् 'इत्यादि । अत्र रावणस्य दृग्विशतौ वैचित्र्येण स्वभावोक्तिनिर्वाहितापि रसस्याङ्गत्वेन न 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy