________________
[ ० उल्लासः ] काव्यप्रकाशः।
१९७ उपकुर्वन्ति तं सन्तं येऽङ्गहारेण जाँतुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ ३७॥
ये वाचकवाच्यलक्षणानातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठायानामुत्कर्षाधानद्वारेण शरीरिणोऽप्युपकारका हारादय इवालंकाराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्य
5 मात्रपर्यवसायिनः । कचित्तु सन्तमपि नोपकुर्वन्ति"।
अपसारय घनसारं कुरु हारं = एव किं कमलैः ।
अलमळमालि मृणालैरिति वदति दिवानिशं बाला ॥ २४२ ॥ इत्यादौ वाचकमुखेन, मनोरोगस्तीवं विषमिव विसर्पत्यविरतं
10 प्रमाथी निर्धमं ज्वलति विधुतः पावक इव । . हिनस्ति प्रत्यहं ज्वर इव गरीयानित इतो
न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ।। ३४३ ।। इत्यादौ वाच्यमुखेनालंकारौ रसमुपकुरुतः।
अलंकाराणां सामान्य लक्षणमाह - उपकुर्वन्तीति ॥ ये वाचकेति । 15 रसस्याङ्गिनो वाचक शब्दो वाच्यश्चार्थोऽजम् । तदतिशयद्वारेणालंकारा रसमुपकुर्वन्ति । एतेनाङ्गाश्रिता अलंकारा ये त्वहिनि रसे समवेतास्ते गुणाः । अलंकाराश्च हारादय इवावयवोत्कर्षद्वारेण अवयविनोऽपि रसाश्चारुत्वहेतवः । रसा हि काव्यस्यात्मत्वेन व्यवस्थिताः, शब्दार्थों च शरीररूपौ । यथा ह्यात्माविष्ठितं शरीरं जीवतीत्युच्यते तथा रसाधिष्ठितं काव्यम् ।। अय भावः । 20 यद्यप्युपमादिभिर्चाच्योऽर्थोऽलंक्रियते तथापि तेषां तदेवालंकरणं यद्वयङ्गयार्थाभिव्यञ्जनसामाधानमिति वस्तुतो ध्वन्यात्मैवाळंकार्यः। केयूरादिभिरपि हि चेतन आत्मैव तत्तचित्तवृत्तिविशेषौचित्यसूचनात्मतयालंक्रियते । तथा बचेतनं शवशरीरं कुण्डलायलंकृतमपि न भाति, अलंकार्यस्याभावात् । यतिशरीरं च कटकादियुक्तं हास्यावहं स्याद, अलंकार्यस्यानौचित्यात् । यत्र तु रसो नास्ति 25 तत्र वाच्यवाचकवैचित्र्यमात्र, तच शब्दचित्रमर्थचित्रं चेत्युक्तं जातुचिदिति व्याकुर्वन्नाह - कचित् स्विति । तत्र रसस्याङ्गिनो वाचकमुखेनालंकारो यथा ' अपसारये 'ति । 'घनसारः' कर्पूरम् ॥ ' मनोरागः 'इति प्रत्येकं संबध्यते ॥ उपकुरुत इति । पूर्वश्लोके कोमलानुमासो 'मनोरागः 'इत्यत्र तु मालोपमा