SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [ ७ स० उल्लासः ] रसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रज्ञान्ताः, उत्तमधीरोदात्तेति । धर्मयुद्धवीरप्रधानो विनयच्छन्नावलेपोऽनात्मश्लाघापरः क्रोधाद्यनभिभूतान्तस्तन्वोऽङ्गीकृतनिर्वाहकः स्थिरो वीरोदात्तः, यथा रामादिः ॥ रौद्रप्रधानः शौर्यादिपदवान् धीरोद्रतः, यथा जामदग्न्यरावणादिः || वीरशृङ्गारप्रधानो धीरललितः सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः, यथा वत्सराजः ॥ दानधर्मवीरशान्तप्रधानो धीरप्रशान्तः, यथा मालतीमाधव - मृच्छकटिकादौ माधवचारुदतादिः ॥ यदुक्तम् ક देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ । धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा । इति चत्वार एवेह नायकाः समुदाहृताः ॥ चत्वारोऽपि क्रमात् सात्वत्यारभटी कैशिकी भारती लक्षणवृत्तिप्रधानाः । Cheer · बृङ्गारित्वे दक्षिणानुकूलधृष्टशठभेदाच्चतुर्धा । तत्र कनिष्ठायां रक्तो ज्येष्ठायामपि दाक्षिण्यशीलत्वाद् दक्षिण:, यथा प्रसीदत्यलोके किमपि किमपि प्रेमगुरवो रतक्रीडाः कोऽपि प्रतिदिन मपूर्वोऽस्य विनयः । . सविश्रम्भः कश्चित् कथयति च किंचित् परिजनो न चाहे प्रत्येमि प्रियसखि किमप्यस्य विकृतिम् ॥ एकानुरक्तोऽनुकूलः, यथा - ' इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोः 'इति ॥ व्यक्तगूढापराधौ धृष्टशठौ, क्रमाद् यथा लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले चत्रे कज्जलकालिका नयनयोस्ताम्बूलरागोऽधरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्विरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाहिं गताः ॥ 'एकत्रासनसंगते प्रियतमे पश्चादुपेत्यासनाद् ' इति ॥ उत्तमेति । उत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिस्रः प्रकृतयः । तत्र केवलगुणमयी उत्तमा, स्वल्पदोषा बहुगुणा मध्यमा, दोषवती अधमा । तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटी विदूषकादयः । उत्तममध्यमप्रकृतिस्तु कथाव्यापी 5 15 20 25
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy