________________
१७०
काव्यादर्शनामसंकेतसमेतः [७ स० उल्लासः ] अविचलितमनोभिः साधकैदृश्यमानें:
स जयति परिणदः शक्तिभिः शक्तिनाथः ॥३०९॥ अधममकृत्युक्तिषु ग्राम्यो गुणः । यथा"फुल्लुक्कर कमलकूरसमं वहन्ति ।
जे सिन्धुवारविडवा मह वल्लहा ते । जे गालिदस महिसीदहिणो सरिच्छा
ते किं च मुद्धविर्यल्लिपसूणपुञ्जा ॥३१०॥ अत्र कलम-भक्त महिषी-दधिशब्दा ग्राम्या अपि विदूषकोक्तौ । ज्येष्ठादीनां परादीनां भूचर्यादीनां करणेश्वरीणां अकारादिरूपामृतादीनां, एवंविधानामन्यासामपि फलभेदाद् आरोपितभेदपदार्थवपुषां 'नाथो 'न्यग्भावनो. 10 द्भावनप्रभुः। जयति आक्षिप्तनमस्कारार्थों जयत्यर्थः । देहबुद्धिपाणपुर्यष्टादिमितप्रमातानिमज्जनात्मबोधप्रमातृभावोन्मज्जनेन समाविशामीत्यर्थः ।। न च शक्तयः परस्परपरिहृतवपुषः, अपि तु एकैकस्याः शक्तेः सर्वशक्त्यात्मतेत्याह'शक्तिाभः। परिणदः परितः समन्ताद् बद्धः । तेनेशित्रादिदशायामपि ज्ञात्रादिवपुः । न चासौ दूरे भवतीत्याह-'षडधिके 'ति । षड्भिरधिका दश षोडश 15 या नाडयः, तासां यच्चक्रं हृत्स्याने ! चक्रं च नाभ्यरादिरूपेण स्वरूपं, तन्मध्ये स्थितः स्थितिमान विश्रान्त आत्माऽविकलं शिवात्मक रूपं यस्य । यदुक्तम्
इडा च पिङ्गला चैव सुषुम्णा च परा स्मृता । गान्धारी हस्तिजिह्वा च पूशा चैव यशा तथा । अलम्बुसा कुहूश्चैव शशिनी दशमी स्मृता।। तालुजिहा भजिह्वा च विजया कामदा परा ।
अमृता बहुला नाम एता वायुसमाश्रिताः ॥ इत्यादि | हृदि हृचक्रे विशिष्टं निहितं स्वातन्त्र्येणोल्लासितं रूपं ज्योतिरादित्य]रूप आकारो येन ॥ एतत्पतिपादनं च न निष्फलमित्याह-' सिद्रिद 'इति । सिदीः परापरभुक्तिमुक्तिरूपा ददाति यः। तं विदन्ति यथावज्जानते तेषाम् ।। 25 न चासावागमोपपतिभ्यामेव सिद्धो, यावत्स्वप्रकाशः प्रत्यभिज्ञातोऽपीत्याहअविचलितेति । अविचलितमनन्यध्येय मनश्चित्तं येषां तैः साधकैः सिद्धतमपदं साधयितुमुघतैदृश्यमानः साक्षात् क्रियमाणः ॥
श्रुतिकटुमभृतय उभयदोषा गुणत्वेनोक्ता, अथ वाक्यस्यैव ये दोषा