________________
01
(७० उल्लास
काव्यप्रकाशः । न प्रस्तं यदि नाम भूतकरुणासंतीनशान्तात्मन
स्तेन व्यारुजवा धनुर्भगवतो देवाद्भवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दचोत्सवः
स्कन्दः स्कन्द इव मियोऽहमथवा शिष्यः कयं विस्मृतः ॥१६८॥ अत्र भवानीपतिशब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति ।" 5 यथा वागोरपि यद्वाहनता माप्तवतः सोऽपि गिरिसुतासिंहः ।
सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ॥१६९॥ अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति । श्रुतिकटु समासगतं यथा
सा रे च सुधासान्द्रतरङ्गितविलोचना। बहिनिदिनाहोऽयं कालश्च समुपागतः ॥१७॥ एवमन्यदपि ज्ञेयम् । अपास्य च्युतसंस्कारमसमर्थ निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥१२॥ केचन, न पुनः सर्वे । क्रमेणोदाहरणम्
नगर्थस्य विधेयत्वे निषेधस्य विपर्यये ।
समासो नेष्यतेऽयस्य विपर्यासप्रसङ्गतः ॥ - 'अश्राद्धभोजी 'इत्यादौ तु 'आदमोजी 'इत्यनेन गमकत्वाद् वा समासः॥
20 भवस्य भायो ' भवानी'। ततो 'भवान्याः पतिः 'इत्यु के भवं विहाय अन्यस्यापि पत्युः प्रतीतिः। यथा 'चैत्रभार्यायाः पतिः 'इत्युक्ते उपपतौ प्रतीतिः।।
सोऽपि 'इति अपिविस्मये।। अम्बिका जनन्यपि, ततो मातरमण इति विरुदा बुदिः ॥ ___ 'सुधे 'ति, अमृतरूपा ॥
अन्यदपीति । अपयुक्तादिसमासगतम् । तथा शृङ्गारे दषिघृतकुशालसादयो, हास्ये नयविनयार्थवाचिनो, रौद्रे दमक्षमासत्यशौचादयो, वीरे व्याधितालस्यादयो, बीभत्से चन्दनादयो, अद्भुते घृणावदस्त्यिाज्याः ॥ [५२]
अपास्येति । च्युतसंस्कारादि दोषत्रयं विहाय वाक्येऽपि श्रुतिकटु
15