________________
काव्यावर्शनामसंकेतसमेतः [५.१० उल्लासः ] येति विषभक्षणादपि दुष्टमेतगृहे भोजनमिति सर्वथा मास्य गृहे भुत्था इत्युपातशब्दार्थ एव तात्पर्यम् ।
यदि च शब्दश्रुतेरनन्तरं बैवानों लभ्यते तावति शैब्दस्याभिधैव व्यापारस्तत्कथं ब्रामण पुत्रस्ते जातो ब्रामण कन्या ते गर्भिणीत्यादी हर्षशोकादीनामपि न वाच्यत्वम् । स्माश्च लक्षणा । लक्षणीयेऽप्य" दीर्घदीर्घतराभिधान्यापारेणैव प्रतीति
सिद्धः। "किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां मकरणीयत्वं तात्पर्यशक्त्या प्रत्येतीत्यत्रापि उपात्त एव शब्दार्थे तात्पर्यम् ।।
हर्षशोकादीनामिति । ते हि वाक्यार्थमतिपत्त्या क्रियन्ते, न च ज्ञापकस्य शब्दस्य कारकत्वं भवति । 'पुत्रस्ते जांतः' इत्यतो वाक्यार्थसामर्थ्याद् हर्षों 10 जायत इति जननव्यतिरिक्तं ध्वननम् ।। न वाच्यत्वमिति । शब्दो हि संकेतसापेक्षः स्वव्यापारमारभते, न स्वभावतः । यत्रैव चास्य संकेतस्तत्रैव अभिधाव्यापारो . युक्तः, नार्थान्तरविषयस्ता संकेतामावात् ॥ कस्माच्चेति । लक्षणा हि मीमांसकैरप्यङ्गीकृता ।। श्रुतिलिङ्गेति । यस्य मभिधेयनाथन सह नैकटयं, स बलीयान् । यस्य चं व्यवहितत्वं स दुर्वलः । यदाहुः-'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमा- 15 ख्यानां पददौर्बल्यमर्थविप्रकर्षांत् ।' न च व्यवहितत्वमव्यवहितत्वं वाभिधाव्यापारगम्यं, किंतु निमित्तत्ववैविध्याद् व्यायमेव । तच्च यदि नाभ्युपगम्यते तत् कथमेकस्य बलीयस्त्वं, सर्वेषां श्रुत्यादीनामभिधाव्यापारस्य समानत्वात् । प्रधाने चाहत्वापादनं श्रुत्यादीनामयः । श्रवणं श्रुतिः । यदर्थस्याभिधानं शब्दश्रवणमात्रादेवावगम्यते ।
20 अमिधात्री श्रुतिः काचिद् विनियोकत्र्यपरा तथा । विधात्री च तृतीयोक्ता प्रयोगो यन्निबन्धनः ।।
प्रकृतिप्रत्ययश्रुत्योः स्वार्थीमिंधायकत्वम् । पदस्य कारकविभक्तीनां च विनियोजकत्वम् । लिडादीनां विधिसामर्थ्यम् । तत्र विनियोनिकायाः अते।, यथा-'ऐन्द्रया गार्हपत्यमुपतिष्ठते।' अत्र गार्हपत्योपस्थाने ऐन्या ऋचो विनि- 25 योगस्तृतीयाप्रतिपादित इति श्रौतः । ऐन्या अङ्गभावः प्रतिपाद्यत इत्यर्थः॥
बहिर्देवसदनं दामि 'इति । देवाश्रयदर्भच्छेदनेऽयं मन्त्र इति । 'दामि'इति कवनलिङ्गाद् अनेन मन्त्रेण बीपि लुनीयादिति प्रतीयते ॥ वाक्यतो यथा'श्वेतं छागमालभेत ।' अत्रैकवाक्योपादानाचवेतगुणस्य च्छागावच्छेदकत्वेन