________________
काव्यादर्शनामसंकेतसमेतः [५ प० उवासः । एते च रसवदांधलंकाराः। यद्यपि भावोदॆयसंधिशबलत्वानि नालंकारतयोक्तानि तथापि कश्चिद् ब्रूयादित्येवमुक्तम् । यद्यपि स नास्ति कश्चिद्विषयो यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टि नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति कचित्केनचिद्वयवहारः ।
जनस्थाने भ्रान्तं कनकमृगर्दैष्णान्धितधिया वचो वै देहीति प्रतिपदमुदश्रु प्रलपितम् । कृताऽलं कामतुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥१२५॥
अत्र शब्दशक्तिर्मूलानुरणनरूपो रामेण सहोपमानोपमेयभावो . 10 इति यदुक्तं तदिहोदाहृतमित्याह-एते चेति ।।
ननु गुणीभूतव्यायोऽपि काव्यप्रकारो रसभावतात्पर्य पर्यालोचनेन पुनर्वनिरेव संपद्यते, इति ध्वनिगुणीभूतव्यङ्गययोः सर्वत्र संकरः संसृष्टिात्याशङ्कयाह-यद्यपीति । अयमर्थः । यद्यस्य चारुत्वपतीतिसहायता तदनेन व्यपदेशो, न सर्वत्र ध्वनिरागिणा भाव्यम् । यथा
15 - "पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । ..
सा रजयित्वा चरणौ . कृताशीर्माल्येन तां निर्वचनं जघान ।"
'अनेन 'इति अलक्तकोपरक्तस्य हि चन्द्रस्य परमागभासः । अनवरतपादपतनप्रसाद विना न पत्युझटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः । 'शिरोविधृता च या चन्द्रकला तामपि परिभव' इति सपत्नीलोकांवजय उक्तः। 20 निर्वचनमिति लज्जावहित्यहर्षासाध्वससौभाग्याभिमानादि यद्यपि ध्वन्यते तथापि तद् निर्वचनशब्दार्थस्य कुमारीजनोचितस्यापतिपत्तिलक्षणस्यार्थस्योपस्कारकतां याति, उपस्कृतस्त्वर्थः शृङ्गाराङ्गतामेति । निर्वचनमित्युक्त्या च व्यायस्यार्थस्य विषयीकृतत्वाद् गुणीभाव एव शोभते ॥ एवं रसादेर्गुणतां दर्शयति । वाच्यस्य शक्यार्थी भूतस्य शब्दशक्तिमूलानुरणनरूपो व्यङ्गयोऽलंका- 25 रोऽङ्गम , यथा 'जनस्थाने ' इति जनानां स्थानं दण्डकारण्यं च । कनकमृगे तृष्णा भ्रान्तिश्च । 'वैदेही' सीता, 'वैदेहि 'इति च पदद्वयम् । लंकाभर्तुः रावणस्य, अलं ईषद्पत्वात् , कुत्सितस्य भर्तुश्च । वदनेषु दशसु, इषुघटना शरयोजना विचित्रोक्तिपरंपरासु च । कुशलवौ मुतौ यस्याः सा सीता, शुभधनता चा