SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ विसक्त्यर्थनिर्णये । ४६३ तयोरपि तिर्थक, निवर्तमानत्वयोरिव लिडर्थे बलवद1. निष्टाननुबन्धित्वेष्टसाधनत्वयोरिव परस्परान्वय स्थ व्युत्पत्तिसिद्धत्वात् एवं नराणां नरेषु वा चत्रियः शूरतम इत्यादौ भेदप्रतियोगितावच्छेदकधर्मः प्रक त्यर्थतावच्छेदकसामानाधिकरण्यं च षष्ठो सप्तम्योरर्थः तत्र दर्शित सामानाधिकरण्यं भेदप्रतियोगितावच्छेदकधर्मेऽन्वेति तथान्वितः स धर्मः चत्रियादावपरपदार्थेऽन्वेति भेदे प्रकृत्यर्थतावच्छेदकनरत्यादौ च विभक्त्यर्थेक देशे प्रकृत्यर्थस्याधेयतयाऽऽन्वयः चत्रियादौ विशेषण पदार्थस्य 1 शूरतमादेः तादात्म्येनान्वयः शौर्यादिधर्मस्वरूस्य वि शेषणस्य संबन्धान्तरेणा तथा च नरवृत्तिनरत्वसमानाविकरणो नरवृत्तिभेदप्रतियोगितावच्छेदको यस्तद्दान् क्षत्रियः शूरतम इत्यन्वयबोधः । नराणां नरेषु वा चaिये शौर्य चत्रियस्यायुधजोवनमित्यादौ दर्शि तनिधरणान्वितस्य चत्रियस्याधेयत्वं शौर्ये संबन्ध चायुधजीवने चेति पत्र भेटप्रतियोगितावच्छेदकोऽन्वयितावच्छेदको भूतयद्धर्माविचक्रेदेन भासते भेदप्रतियोगितावछेदकत्वेन स एव धर्मो भासते यथा सत्तावन्ति सणि निखिलजा तिव्यापकजातिमन्ति सकलजातिव्यापकजातिमन्ति सत्तावन्ति बेत्यादौ सकल जातिव्यापकजातित्वेन सन्चैव भासते तथा प्रकृते चवियत्वादि रन्वयितावच्छेदक एव भेदप्रतियोगितावच्छेदकत्वेन भासत इति व्युत्पत्तिरत एव चत्रियस्य चत्रियनिष्ठ भेदप्रतियोगितावच्छेदको भूत क्षत्रिय वैश्योभयत्ववत्वेऽपि चवियाणां चत्रियः शूर इत्यादिको न प्रयोगः न वा Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy