________________
३९८
पञ्चमीविभक्तिविचारः ।
बच्छिन्नप्रतियोगिताकाभावाप्रसिद्धः स्वरूपादिसंसर्गावच्छिन्नप्रतियोगिता काभावस्य द्रव्यत्वप्रमाजन्ये गुणादिज्ञानेऽपि सत्त्वादिति पञ्चम्या ज्ञानज्ञाप्यत्वमर्थस्तदेकदेशे ज्ञाने प्रातिपदिकार्थो विषयित्वेनाग्वेति कर्तृकृदर्थंकदेशे कृतौ धात्वर्थवदाकाङ्गावैचित्यात् विषयित्वं भ्रमसामान्यभिन्नत्वविशिष्टमन्वयघटकं बोध्यं तथा च द्रव्यत्वप्रमाजन्यज्ञानविषयत्वस्य गुणादौ प्रसिद्धस्य खरूपसंसर्गावच्छिन्नप्रतियोगिताको भावो वह्नौ नञा बोध्यत इति निषेधप्रतीत्युपपत्तिः नलं द्रव्यत्ववत् स्पर्शान्न तु गन्धादित्यादौ गन्धप्रमाजन्यज्ञानविषयत्वस्याभावो द्रव्यत्वे जलावच्छेदेन नञा प्रत्याय्यते इति निषेधप्रतीतेन्ननुपपत्तिः धूमादग्निमानित्यादौ पक्षपदासमभिव्याहृतवाक्येऽपि नान्वयबोधानुपपत्तिः धूमप्रमाजन्यज्ञानविषय बन्हिमा नित्याकारकान्वयबोधस्य निष्प्रत्यूहत्वादिति । नव्यमते पुनरिदं चिन्त्यं तथा हि ज्ञानज्ञाप्यत्वस्य पञ्चम्यर्थताऽभ्युपगमे गन्धाद् द्रव्यत्त्ववानित्यादौ नान्वयबोधः स्याज्जलावच्छेदेन द्रव्यत्वे गन्धप्रमाजन्यज्ञानविषत्वाभावस्य सत्त्वात् न च पृथिव्यवच्छेदेन द्रव्यत्वे गन्धप्रमाज्ञाप्यत्वस्य सत्त्वादन्वयबोधोपपत्तिरिति वाच्यं तथासति जलावच्छेदेन तदभावस्य सवात् गन्धान्न द्रव्यत्ववदिति वाक्यप्रयोगप्रसङ्गात द्रव्यत्वं गन्धान्नगन्धाच्चेति प्रयोगप्रसङ्गाच्च न च जलं द्रव्यत्ववत् गन्धादित्यव गन्धप्रमाचाप्यद्रव्यत्वस्यात्यन्ताभावस्तद्ददन्योन्याभावो वा नञा जले प्रत्याय्यत इति वाच्यं घटो द्रवात्ववान् गन्धाज्जलं द्रवग्रत्ववत् न ग
@
Aho ! Shrutgyanam