SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ विनिर्णये । ३९५ रौत्या धूमद्रव्यत्वोभयप्रकारकैक विशेष्यता कस्य परामर्शस्य जन्यत्वेऽपि पर्वतौ वह्निमान् गुणवान इत्याकारकानुमितेः पर्वतो वह्निमान् धूमान्न द्रव्यत्वादित्यादौ न निषेधप्रतीत्यनुपपत्तिः वन्हिविधेयता के ज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वात् वह्निविधेयता विशेषणत्ज्ञाने द्रव्यत्वप्रमाहतुकत्वाभावप्रतीतिसम्भवात् । एवं जलं द्रव्यत्ववस्पर्शान् गन्धादित्यादौ स्पर्शप्रमाया द्रव्यत्व विधेयताकज्ञानं प्रति जनकत्वात् द्रव्यत्वविधेयक ज्ञानोद्देश्यताया जले सत्त्वात् स्पर्शप्रमाजन्यज्ञानविधेयस्य द्रव्यत्वदर्शितोह श्यतया जलेऽन्वयः सम्भवति गन्धप्रमाया टूव्यत्वविधेयताकज्ञानत्वावच्छिन्नं प्रति जनकत्वेऽपि गन्धप्रमाजन्येज्ञानोद्देश्यताया जले विरहात् पचनिछोद्देश्यताकज्ञानं प्रति पक्षसंबन्धविषकलिङ्गविषयकज्ञानस्य हेतुत्वात् गन्धप्रमाया जलसंबन्धाविषयकत्वात् गन्धप्रमाजन्यज्ञाने जलोद्देश्यताकत्वविरहाद् दर्शितोद्देश्यता संसर्गेण गन्धप्रमाजन्यज्ञान विधेयत्वापन्नस्य द्रव्यत्वस्य जले वैशिष्ट्यविरहान्नान्वयः दर्शितोद्देश्यतासंसर्गावच्छिन्नप्रतियोगिता कस्य गन्धप्रमाजन्यज्ञानविधेयद्रव्यत्वाभावस्य नञा बोधनसम्भवान्निषेधप्रतीत्युपपत्तिः । नतु दर्शिते पर्वतो वह्निमान् गुण माद् द्रव्यत्वादित्यादौ वह्निविधेयताक ज्ञानत्वावच्छिन्नं प्रति द्रव्यत्वप्रमाया अजनकत्वेऽपि वहिगोभयसमूहालम्बनजनकत्वस्याचतत्वात् द्रव्यत्वान्न हिमानित्यादौ कथं वह्निज्ञाने द्रव्यत्वप्रमाहेतुक Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy