SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। स्थ्यात् प्रकाशस्थाननुगमापत्तेश्च । तस्मात्प्रथमावय वावच्छेदेन लौकिकं चाक्षषं प्रत्यक्ष वा प्रकाश: प्रथमत्वमव यवानां तु स्वारघ्यारम्भकावयवाधिकरणसमयध्वंसानधिकरणसमयवतित्वमिदमेव मूलत्वं हैमवतश्च गङ गावयवस्य स्वोत्पादकसमयवर्ति तया तथात्वं देशान्तरौयस्य तु हैमवताधिकरणासमयध्वंसाधिकरणसमयवर्तितया न तथात्वमिति । एवं वृक्षमूलस्यापि मध्यशाखाद्यपेक्षया प्रथमत्वमिति एवं हिमवतो गङ्गा प्रभवतीत्यत्र दर्शितः प्रभवत्यर्थः विषयत्वस्वरूपं कर्तुत्वं तिङर्थः पञ्चम्याः प्रकाशान्वयिकर्तघटितसंबन्धावच्छिन्नमाधयत्वमर्थस्तथा च हिमवत्तेः प्रथमावयवावच्छिन्नस्य चाक्षुषस्य वा विषयो गङ्गेत्त्यन्वयबोध: दर्शिते प्रभवस्यर्थे प्रथमत्वमवयव एव विवक्षितमतो हिमवतो गङ्गा प्रभवति काश्मौरभ्यो वितस्ता प्रभवति प्रथमत उपलभ्यत इत्यर्थ इति काशिका अत्र प्रथमत्वस्य धात्वर्थविशेषगात्वे प्रथममिति स्यान्न तु तस्यन्तप्रयोगस्त सेरवच्छिन्नत्वमर्थः पृष्टतो गरुडध्वज इति दशनात् अवच्छिन्नत्वं तु प्रकृते स्वरूपसबन्धविशेषः वि. षयित्वं वेत्त्यन्य देतत् । अथ वा पञ्चम्या हेतुत्वमर्थः अत एव प्रभवत्य स्मादिति प्रभव इति काशिका । है. तुत्वं च दैशिकं बोध्यं प्रथमावयवाधीनस्य दर्शितप्रकाशम्य प्रयोजकता प्रथमावयवसत्ताप्रयोजकस्य हिमवत इति अत एव क्षेत्राच्छालिः क्षात्पुध्यं वा प्रभवतीति न प्रयोग: शालिपुष्पयोर्मलरन्तयोः प्रथमाव यवयोः क्षेत्रवृक्षाभ्यामन्यत्रापि परणानयने सति संयोगसम्भवात् Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy