SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ म विभत्त्यर्थनिर्णये। काशिका | अत्यन्तं पञ्चम्यर्थसहितस्य धात्वर्थस्य प्रयोज्यान्तस्य विवरगां निलीयत इति व्यवहितादिदेशसंयोगस्य धात्वर्थस्य प्रधानस्य विवरणमिति । अधीङादियोग पञ्चमौं ज्ञापयति । आख्यातोपयोगे इति सूत्रम् । प्राख्याता वक्ता आख्याफले उपयोगे सति अपादानसंजः स्यादित्यर्थकम् । आख्यानफलं तु शिष्यस्योच्चारणमर्थज्ञानं वा श्रोतुस्तु पुण्यमधर्मध्वंसो वा उपाध्यायादधीत इत्यवाध्ययनं विविधमपि पूर्वोक्तं पञ्चम्या आख्यानं वाक्यमर्थस्तञ्चाध्ययनफले उच्चारणे अर्थप्रतिपादकतानाने वा प्रयोज्यतयान्वेति उच्चारणफलकं थावणमर्थप्रति. पादकताज्ञानफलकं श्रावणं चेति विविधमध्ययनमधौडोऽर्थः उच्चारणं तु वत्पिादकतयोपलक्षितो विटतादिः प्रयत्न इति आख्याने तु प्रकृत्यर्थस्य कर्ट तयाऽन्वयः एवमुपाध्यायकर्ट कवाक्यप्रयोज्यस्योच्चारणस्थार्थ प्रतिपादकतातानस्य वाऽनुकूलं यच्छावणं तदाश्रयत्वं वाक्यार्थः । गरलाइडवानलाहा दाहवदान्यतां शिक्षत इत्यादौ यदि न हेतुटतीयाप्रयोगः तदाऽख्यानज्ञापनं तच्च क्रियाकर्तव्यताज्ञानानुकूलन्यापारः पञ्चम्यर्थः प्रयोज्यतया शिक्षणादिफले प्रत्तावन्वेति शिक्षतेस्तु प्रवृत्तिफलक परकर्ट कक्रियाया दर्शनं जानसामान्य बाऽर्थः वडवानलादेस्तु दाहकर्ट त्वमेव दाहकर्तव्यताज्ञानप्रयोजकमिति नानुपपत्तिरिति पञ्चम्यर्थे तथाविधव्यापार प्रत्यर्थस्याधयतयाऽन्वयः एवं पाचकात्माकं शिक्षते नटान्नाञ्च शिक्षते इत्यादी इत्थं च पक्तव्यमिति पाकाङ्गस्य चुल्लीप्रज्वालनादिकर्मण: Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy