SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३४८ पञ्चमीविभक्तिविचारः। ले गलाध:संयोगोत्तरदेशसंयोगादावन्वेति प्रकृत्यर्थस्य निरूपकतया आधेयरवोन्वय: इच्छा तु भक्षणादि कर्तबौध्या एवं च यथाधेयत्वप्रकारिकेच्छाविषयगलाध:संयोगफल कभक्षणकट त्वाभावस्य गोवृत्तेरनुकूलव्यापारः कूपधेियत्वप्रकारिकेच्छाविषयोत्तरसंयोगफलकगमनकट त्वाभावस्यान्धवृत्तेरनुकूलव्यापारश्च वाक्यार्थ: यद्यप्यन्धादेः कूपाधेयत्वप्रकारिका नेच्छा तथाप्यभिमुखदेशाधेयत्वप्रकारिकेच्छा विद्यत एवाभिमुखत्वेन कूपादिस्तल भासत एवेनि नानुपपत्तिः न च पञ्चम्या आधेयस्वमर्थो मक्षगादिफले गलाध:संयोगादावन्वियात् किं पञ्चम्यर्थे इच्छान्त वेणेति वाच्यं यत्रान्नपिहितविषभोजनप्रतिषेधव्यापारस्तत्व विषाहारयतीति न प्रयोगः किं तु स विषान्नाहारयतीतिप्रयोगस्तत्र पूर्वप्रयोगवारणेच्छायाः तदन्तर्भावात् थस्य यवादेन केनापि भक्षणं तत्परायवाज्ञां वारयतौतिप्रयोगस्यानुपत्तेश्च इछायास्तदन्तर्भावे तु तद्यवाधेयत्वप्रकारिकेच्छाविषयफलकभक्षणकट वाभावानुकूखव्यापारबोधस्य सम्भवात् भवति तथाविधप्रयोगः एवं च दर्शितस्थले भक्षणादौ तद्यवाधेयत्वस्य गोकर्ट कत्वस्य चोभयाभावः प्रतीयते तदर्थं व्युत्पत्त्यन्तरकल्पनं च न युक्तं गौरवात् । न च सर्वचैव उभयाभावबोधान्न व्युत्पत्त्यन्तरकल्पन मिति वाच्यम् । तथासतिः गगमाङ्गां वारयतीतिप्रयोगापत्तेः गगनाधेयत्वगोकट कस्वोभयाभावस्य भक्षणे सत्त्वात् तस्मादिच्छायास्तथात्वमेवोचितमेतदर्थमेव सूत्रे पौमितपदमित्याहुस्तच्चिन्त्यं तथासति क्षेत्राइन्यां वार Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy