SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । थाऽतिप्रसङ्गादित्युक्तत्वादिति । यदि वाऽपसरत्यादेर्देशान्तरसंयोगफलको व्यापारो नार्थः तथासति विलादर्धमायाते सर्पे विलात्सर्पोऽपहृत इति प्रयोगप्रसङ्गात् तमात्सववयवावच्छिन्न पूर्वदेश विभागफलक कर्मफलको व्यापारोऽपपूर्वकस्य निःपूर्वकस्य च गमनार्थकधातोदर्थः त्रिभागफलवतः पूर्वदेशस्य धातुना अभिधानात् कर्मफलवतो व्यापारवत्तया कर्तत्वाच्च नापसरत्यादेः सकर्मकत्वमिति विभाव्यते तदा सदसोऽपसरतीत्यादौ पञ्चम्या अवधित्वमवधिमत्त्वं वा अर्थो विभागेऽन्वेति । यदि च सर्वावयवावच्छिन्न पूर्व देशान्य संयोगफलको व्यापारोऽपसरत्या देरर्थस्तदा सदसोऽपसरति निःसरत्यपगच्छति निर्गच्छत्यपैति निरेति बेत्यादौ पञ्चम्या विभागोऽर्थो जनकतया व्यापारेऽन्वेति । क्व चिदन्यादृशोऽप्यपायः यथा वैपणिकान् मौक्तिकं क्रीणाति नृपाज्ञां प्रतिगृह्णातीत्यादौ स्वस्वामिभाव संबन्धविगमोऽपायः पञ्चअर्थः क्रये प्रतिग्रहे प्रयोजकतयाऽन्वेति क्रयस्तु स्वत्वेच्छाप्रयोज्यं दानं प्रतिग्रहः स्वत्वोद्देश्य के च्छेतितृतीयाविवरणोक्तं स्मर्तव्यं पञ्चम्याः स्वत्वनाशोभयं खण्डशो वाऽर्थस्तव प्रकृत्यर्थस्य निरूपितत्वेन संबन्धेन स्वत्वे तस्य प्रतियोगितानिरूपिताऽनुयोगितया नाशेऽन्वयस्त थाविधनाशस्य जनकतया क्रयवग्रापारे दाने प्रतिग्रहवापारे स्वत्वेच्छायां चान्वयः नरकात्पापाद्दा पितृनुहरतीरथ चोर्ध्व लोकप्राप्तिफलकादृष्टफलकः श्रादादिवापार उद्धरतेरर्थः अदृष्टफलवता पितृकर्मणाऽस्य सकर्मकरवं प्राप्तिफलवत ऊर्ध्व लोकस्य धातुनाऽभिधानान्न Aho ! Shrutgyanam ३३५
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy