SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ રૂર पञ्चमीविभक्तिविचारः। इयमेकमेव पचत्वावच्छिन्नयाऽवच्छेदकतया निरूप्यतइति अमुमेवाभावं पत्रपतनकर्तपत्रे विभागजनकत्वतनिष्ठभेदप्रतियोगितावच्छेदकत्वं पतने नास्तौतिवाक्येन प्रामाणिका व्यवहरन्ति । एतादृशाभावबोधः पत्रत्वा द्यवच्छिन्नैकप्रकारतानिरूपितविभागभेदोभयविशेष्यताक: सम्भवति प्रकारतादयनिरूपित कविशेष्यताकस्य संशयादेरिब विशेष्यताद्वयनिरूपितैकप्रकारताकबोधस्यान्युपेयत्वात् अत एव संशयाव्यवहितोत्तरं प्रत्यक्षमिति वाक्ये न मानान्तरेण वा यस्मात्संशयादव्यवहितं तस्मादुत्तरं प्रत्यक्षमिति प्रत्याय्यते संशयत्वावच्छिन्नयैकप्रकारतयाऽव्यवधानोत्तरत्वविषयतयोस्ताभ्यां च प्रत्यक्षविशेष्यताया निरूपणेन फलत एकतमसंशयाव्यवहितपूर्वस्य चिरातीतसंशयान्तरोत्तरप्रत्यक्षस्यानवगाहनात् । एवमेव धूमत्वादिसामान्यधर्ममन्तर्भाव्य बनद्यादेः कारणत्वमपि सुग्रहं तत्तङ्कमाव्यवहितपूर्वक्षणावच्छेदेन तत्तई माधिकरणे विद्यमानस्याभावस्य प्रतियोगितासामान्यामावो वह्नौ धमकारणता स चैक एवाभाव: न तु धूमव्यक्तिघटित कूटात्मक: युगसहस्रणापि दुहत्वात्सम्भवति चैकयैव धूमत्वावच्छिन्नावच्छेदकतया निरूपितमव्यवहितपूर्वक्षणावच्छिन्नत्वे अधिकरणत्वे चावच्छेदकताइयं ताभ्यां निरूपितं विद्यमानत्वे तेन चाभावेऽवच्छेदकत्वमेकैकमेव परस्परनिरूपितमभावनिष्ठावच्छेदकत्वेन निरूपिता प्रतियोगितात्वावच्छिन्ना प्रतियोगितेति तन्निरूपकोऽनुगतः सामान्याभावः तदुद्धिं प्रति धूमत्वावच्छिन्नेकप्रकारतानिरू Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy