SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ $ विभक्त्यर्थनिर्णये । वत् पुष्पमित्यन्वयबोधः । विषयताया इच्छादिसमानकालिकत्वात् त्यक्ते पुष्पादौ न नमःपदप्रयोगः । नमः - खाहादिपदानां प्रयोक्त पुरुषौय त्यागार्थ का त्वादन्यदीयत्यागेऽन्यस्य न नमः स्वाहादिपदप्रयोगः प्रोतौच्छाप्रयोज्यत्वं खत्वनाशान्वय्येवोपपद्यते यतः प्रौतोच्छाप्रयोज्यस्वत्वनाश एव देवतानां स्वत्वं संबन्ध: शिवस्य पुष्पमित्यादौ व्यर्थतया प्रतौयते तत्र हि प्रीतीच्छाप्रयोज्यत्वस्य त्यागविशेषणत्वे विशिष्टत्यागस्य प्रयोज्यतया स्वत्वनाशघटकत्वे परम्परासंबन्धगौरवं स्यात् तस्य खत्वनाशविशेषणतया परम्परासंबन्धघटकत्वे दर्शित संबन्धस्य लाघवमेव न वा प्रीतीच्छायास्तत्प्रयोज्यत्वस्य वा चतुर्थ्यर्थस्य नमः पदार्थं त्यागेऽन्वयो युज्यते तथा सति मौतेरुद्देश्यतया त्यागेऽन्वयेनेव तादृशप्रयोगसम्भवात् शिवादेः प्रौतिबाधेऽपि बाधितोद्देश्यता के च्छासम्भवात् । अग्नये जुहोतीत्यादौ संप्रदानत्वस्य प्रीतेर्नमः पदार्थान्वयोपगमे धातुं विना स्वविशेषण कशाब्दविषयत्वात्कारकत्वहानिप्रसङ्गात् शिवाय नम इति मन्त्रवाक्ये शिवादोनां देवतात्वं मन्त्रलिङ्गेनावगम्यते यथा चातार मिन्द्रमवितारमिन्द्रमितिमन्त्रेण प्रकाश्यमानस्येन्द्रस्य देवतात्वं तच्च त्यागार्थकनमः स्वाहादिपदसमभिव्याहृतचतुर्थ्यन्तपदप्रतिपाद्यत्वमथ वा नमः स्वाहादिपदप्रतिपाद्यस्य त्याग प्रकार स्वत्वनाशस्य प्रयोजिकायाः प्रीतीच्छाया विषयत्वं प्रागुक्तविशेष्यत्वस्वरूपं बोध्यमिति यत्व पदे । नहत्थोपस्थापितेऽर्थं पदान्तरार्थस्यान्वयेन वाक्यार्थतया देवतात्वं प्रतीयते तत्र श्रौतं तदुच्यते यथा ऐन्द्रं दधि ४० Aho ! Shrutgyanam ३१३ 80
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy