SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २९२ चतुर्थीविभक्तिविचारः । कृष्णपदेन न प्रतिपाद्यते किं तु व्यञ्जनयाऽथ वा वि प्रश्नानन्तरितशुभाशुभपर्यालोचनं राधोच्योरथं इति धातुनैव विप्रश्नगोचरताप्रत्याय्यते इति संप्रदाय: । वस्तुतस्तु विप्रश्नः शुभाशुभप्रश्नः शुभाशुभतिज्ञासाप्रयोज्यकिमादिशब्दघटितवाक्यमिति यावत् तत्र विप्रश्नस्तत्प्रयोजिका जिज्ञासा वा चतुर्थ्यर्थः दैवपर्यालोचने राधौच्योरर्थे प्रयोज्यतयाऽन्वेति चतुर्थ्यर्थे जिज्ञासायां विषयितया प्रकृत्यर्थस्यान्वयः यत्संवन्धित्वेन शुभाशुभजिज्ञासा तस्यैव शुभाशुभविषयतानिरूपितविषयितया जिज्ञासायामन्वयः ईदृशविषयितयैव प्रकृत्यर्थस्थान्वयः तेन मैवपुत्रस्य किं शुभमशुभं वेति प्रश्न मैत्राय राष्यतीति न प्रयोगः | एवं कृष्णाय राध्यतौचते वा गर्ग इत्यव कृष्णविषय शुभाशुभ जिज्ञासा प्रयोज्य शुभाशुभपर्यालोचनाश्री गर्ग इत्यन्वयबोधः । धात्वर्थघटक शुभाशुभे कृष्णसमवेतत्वमर्थात्प्रतीयते धात्वर्थो तादृशजिज्ञासाप्रयोज्यत्वान्वयबलात् अत एव देवदत्ताय राध्यतीक्षते वा नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थ इति काशिका विप्रश्नवाक्यं न धात्वर्थे घटते न वा चतुर्थ्यर्थः किं तु शुभाशुभ जिज्ञासैव यत्र न प्रश्नवाक्यं खस्यैव शुभाशुभ जिज्ञासा तत्रापि वराय कन्यायै वा राध्यति नैमित्तिक इति प्रामाणिकः प्रयोग इति । प्रत्याङ्पूर्वस्य श्रुवो योगे चतुर्थी ज्ञापयति । " प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" इति सूत्रं प्रतिपूर्वकस्याङपूर्वकस्य शृणोतेः पूर्वस्य कर्ता तदर्थप्रयोजक क्रियाकर्ताऽस्य धातोर्योगे संप्रदानसंज्ञो भवतीत्यर्थकं प्रतिशृणोतेरा " Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy