SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ चतुर्थीविभक्तिविचारः । 1 योगस्वरूपफलत्वान्वव्यभिधन्ते संप्रदानचतुर्थी तु फलमेवाभिधन्ते न तु फलान्वय्याधेयत्वमिति गत्यर्थकमोतिसूत्रव्याख्याने वच्यते नापि संयोगेच्छा चतुर्थ्यर्थस्तथा सति ग्रामसंयोगेच्छया यानारोहणे ग्रामाय गछतौतिप्रयोगापतेः किं च संयोगेच्छार्थकत्वेऽपि चतुर्थ्या न कर्मत्वार्थकत्वं येन प्रत्याख्यानं स्यादत एव गत्यर्थकर्मणीतिसूत्रे कर्मणीत्युक्तमित्यग्रे व्यक्तोभविष्यतीति । देवदत्ताय रोचते मोदक इत्यादी देवदत्तादेः संप्रदानवं ज्ञापयति । " रुच्यर्थानां प्रीयमाण" इति सूत्रम् । च्यर्थानां योगे प्रीयमाणो योऽर्थस्तत्कारकं संप्रदानसंज्ञकं भवतीत्यर्थकं विषयक कोऽभिलाषो रुचिः तदर्थाः रुच्यर्थाः अत एवान्यकर्ट कोऽभिलाषो रुचिरिति काशिका प्रीयमाणः रुचिकर्तविषयप्रीतिमान् भवति हि रोचते मोदक इत्यव रुचिकर्ता विषयो मोदकस्तत्प्रीतिमान् देवदत्त इति तस्य संप्रदानत्वं प्रौतिश्चात सुखत्वेन सुखजनकत्वे न वा अभिलाषस्तद्दान् तसमवायी तथा चायमेवाभिलाषो रुचिस्तत्समवायित्वं समवेतत्वं वा चतुर्थ्यर्थः देवदत्ताय रोचते मोदक इara देवदत्तसमवेताभिलाषविषयो मोदक इत्यन्वयबोध इति संप्रदायः । वस्तुतस्तु रुचिरुत्कटेच्छा उत्कटत्वं च द्वेषप्रतिबन्धकतावच्छेदको जातिविशेष इत्यन्यत्र विस्तरः । रुच्यर्थाः रोचत्यादयः तदर्थकर्तत्वं विषयस्येति रोचते इत्यादावाख्यातस्य विषयत्वमर्थ इति प्रथमाशब्दार्थः प्रीतिमान् प्रौतिः सुखं तथा च चतुथा र्थः सुखं तस्य सामानाधिकरण्योद्देश्यित्वाभ्यां संबन्धा A २७८ Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy