SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। निराबाधमिति श्रमजन्यतानिरूपकत्वमलंपदार्थेऽन्वेति अतः फलहेतुताथा नामार्थान्वयान्न कारकत्वमिति एवं दुःखनाधीतं दु.खेनार्जितं दुःखेन विद्या दुःखन धनं श्रमेण यदुपार्जितमित्यत्र फलहेतुत्वान्बयो नया रीत्या बोधाः निर्वाणेन सुगतमुपास्ते जाल्म इत्यत्व निर्वाणपदेस्य ल्युट्प्रत्ययस्य वा निर्वाणज्ञाने लक्षणा तस्य फलेच्छाचिकीर्षाप्रतिप्रयोजकतथा सुगतोपासनजनकत्वं प्रत्यक्षोपजीवकत्वज्ञानस्य निरूपण जनकत्ववदिति नात्र फलहेतुत्वमिति । फलवाचकस्य हेतुपदसामानाधिकरण्ये षष्ठौं ज्ञापयति । “षष्ठीहेतुप्रयोगे" इति सूत्र हेतुपदप्रयोगे षष्ठीविभक्तिर्भवतीत्यर्थकं टतीयाऽपवादः हेतुशब्दस्य हेतुतानिरूपको ज यताऽऽश्रयो वाऽर्थः षष्या हेतुत्वं जन्यत्वं वाऽर्थः हेतुशब्दप्रयोगे षष्ठौ यथाऽध्ययनस्य हेतोर्वसति अब हेतोस्तादात्म्यनाध्ययन तस्य षष्टार्थे तस्य वासेऽन्वयः तथा च हेतुतानिरूपकाभिन्नाध्ययननिरूपितहेतुताश्रयो हेतुतानिरूपकाध्ययननिष्ठजन्यतानिरूपको वा वासो वाक्यार्थः एवमन्नस्य हेतो तस्य हेतोर्वा वसतीत्यादावष्यन्वयो बोध्यः हेतुपदसामानाधिकरण्यं कर्मधारयोपि भवति सूत्र प्रयोगशब्दस्य सामानाधिकरण्यार्थकत्वात् तथा चाध्ययन हेतोवसतीत्यपि प्रमाणम् अवाध्ययनस्य तादात्म्येन हेतुपदार्थे हेतुतानिरूपके तस्य निरूप्यतया षष्टयर्थे हेतुत्वे विशेष्यविशेषणभाववैचिल्यणान्वयो ज्ञानवतां ज्ञानमित्यवेव निष्प्रत्यूहः हेतुशब्दसमानाधिकरणसर्वनाम्नस्तुतीयां प्रतिप्रसते । “सवनाम्नस्तृतीया चे"ति सूत्रम् । हेतुशब्दप्रयोगे सर्वनाम Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy