________________
२५०
तृतीयाविभक्तिविचारः ।
भसि शब्दानुत्पाद: पूर्वोक्त एव स च रोगविशेषेणादृष्टविशेषविरहेण वा यथायोग्यं प्रयुज्यत इति । अवयवस्य नाशस्वरूपाऽपचय दूवोपचयोऽपि विकारः अत एव "स बाल आसोद्दपुषा चतुर्भुजो मुखेन पूर्वोन्दुमुखस्त्रिलोचन” इत्यत्र तृतीययोरुपचयोऽर्थः स च प्रयोज्यत्वेन भुजचतुष्टयसंबन्धेऽन्वेति वपुः पदं पूर्वकायपरमिति वदन्ति । तत्र जानुभ्यामूर्द्धज्ञः संज्ञर्वेति उदरेण पिचण्डिल इति च प्रयोगेऽभ्युपगमवादः तृतौयार्थोपचयस्यान्वयसम्भवात् यदि चोपचयोऽर्थो नाभ्युपेयते तदा चतुर्भुजशब्दस्य चतुसंख्यकभुजसमवेतोऽर्थस्तत्र तृतीयार्थोऽभेदो वपुर्विशेषितोऽन्वेति वर्णेन लोहित इतिवत् सुखविशेषितमाधेयत्वं तृतौयार्थो लोचनत्रयेऽन्वेति श्रवयवस्याप्यवयवित्तित्वं वृक्षे शाखेतिप्रतीतेः वपुषा सुखेनेत्युभयव तृतीया' प्रकृत्यादिभ्य" इतिवान्ति केन सिध्यति । उपलक्षणे तृतीयां ज्ञापयति । " इत्यंभूतलक्षणे" इति सूत्रम् । अस्यार्थः क चित्प्रकारं प्राप्तः इत्थंभूतः तस्य लक्षणमित्थंभूतलक्षणं तव तृतीयाविभक्तिर्भवतीति काशिका प्रकारो द्विविधः विशेषणमुपलक्षणं च खसमानकालिक बुद्धिप्रकारो विशेषणं स्वासमानकालिकबुद्धिप्रकार उपलक्षणं यथा गुरुया टीका कुरुणा क्षेत्रमित्यच कुरु गुरुः तथा चाव विद्यमानकालनिष्ठस्य ध्वंसस्य कादाचित्काभावस्य वा प्रतियोगित्वं संबन्ध तृतीयार्थः प्रतियोगित्व प्रकृत्यर्थे विशेषणतया संबन्धो विशेष्यतयाऽन्वेतीति एवमविद्यमानस्य गुरोष्टीका कुरो: क्षेत्रमित्यन्वयबोध इति केचित् । अत एव सूचे इत्थंभृतेत्यवाऽतीतार्थको निष्ठाप्रत्ययोती
"
Aho ! Shrutgyanam