SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २४५ पूर्वोक्तोभयधर्मवत्वमिति । ननु चाच षप्रयोजकत्वं यदि चाक्षुषोपधानप्रयोजकत्वं तदा निमोलितैकलोचने कापदप्रयोगापत्तेः यदि चाक्षुषस्य योग्यप्रयोजकत्वं तवापि प्रयोजकत्वमुपधायकत्वं तदापि पूर्वोक्तो दोषः निमीलने सति सन्निकर्षादेर्योग्यस्यानुपधानात् यदि योग्ययोग्यत्वं तदा पुष्पकादिना गोलकच्छिद्रमुद्रणे काणपदाप्रयोगप्रसङ्गः तत्र गोलके निर्गमहारकसंनिकर्षयोग्यतायाः सत्त्वात्पुष्पकाद्यपनये चाक्षुषसंनिकर्षयोः सम्भवादिति निरूढलक्ष्यतावच्छेदकमध्येकं न सम्भवतीति चेत् न अविकृतगोलकत्वस्यैव योग्यतात्वात् सपुष्पकगोलके तद्विरहादेव काणपदप्रयोगसम्भवात् विकारास्तु गोलकनिष्ठ प्रत्यासच्या चाक्षुषप्रतिबन्धकतावच्छेदकतयाऽनुगमनीयाः अथ वा गोलकहयप्रयोज्य चाक्षुषाभावचाक्षुषोभयवत्त्वमवच्छेदकता संबन्धेन काणपदस्य लक्ष्यतावच्छेदकं निमौलितैक लोचनेऽतिप्रसङ्गवारणायाहष्टाद्दारकप्रयत्नावरुडगोलकवदन्यत्वेन तद्विशेषणीयं गोलकविकारादेर्दुरदृष्टजनकप्रयत्नसाध्यत्वात् काणेऽप्रसङ्गवारणायादृष्टम्दारकत्त्वं प्रयत्ने विशेषणं पूर्व निमौलितैकलोचनस्य कालान्तरेण गोलकविकारे सति तथाविधगोलकवदन्यत्वस्य विकृतगोलके शरीरे सत्त्वात् आहारपरिणामानादिना शरीरभेदादिति न काणपदाप्रसङ्गः यदि च काणस्याविकृताचिनिमीलने तथाविधगोलकवदन्यत्वविरहात् खापे चोभयघटकचाक्षुषस्य विरहात्काण पदाप्रसङ्ग इति विभाव्यते तदा तया विधातथाविधगोल कहयवदन्यत्वविशेषण मुभयघटक Aho ! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy