SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ રરક तृतीयाविभक्तिविचारः। वच्छेदके गोस्वामित्वे चैकदेशे तृतीयार्थाधेयत्वस्यान्वयः । गोस्वामित्वे एकदेशे सहार्थस्य विशेषणतयाऽन्वयः सहार्थ: निरूपकतासंबन्धघटितसामानाधिकण्यं प्रतियोगित्वसंबन्धेन स्वामित्वस्य सामानाधिकरण्ये तस्य स्वरूपण गोस्वामित्वेऽन्वयितावच्छेदके तहिशिष्टस्य तादात्म्येन पितर्यन्वयः न चान भवत्वेकदेशान्वयस्तावता सर्वत्र न तत्सम्भव: पुत्रेण सह स्थल इत्यत्र ,पुत्राभिन्नस्य स्थलत्वविशिष्टस्य समानकालिकत्वे विशेणतयाऽन्वयात् स्थूलत्वस्या यन्वयः विशेषणान्वये सत्येव विशिष्टान्वयस्य भावादित्येतावता सामञ्जस्यान्नाचैकदेशान्वयइति वाच्यं यत्र हि स्थूलत्वोपलक्षितः स्थूलपदेन प्रतिपादितस्तत्र विशिष्टान्वयबलादपि न स्थलत्वसमानकालिकत्वलाभ दूत्येकदेशान्वय आवश्यक इति । एवं शिष्यैः सह जटावन्तो सुनयः, यज्ञदत्तग्रहैः सह काकवन्तो देवदत्तमहा इत्यादावेकदेशान्वयं विना नाभिमतनिर्वाह इति एवं सह दिवसनिशाभ्यां दीर्घा: वासदण्डा इत्यत्र दीर्घत्वं कालिकं दैशिकं च बहुतरकालसंबन्धः कालिकं यहशाहीर्घमायुरिति प्रयोगः बहुतरदेशसंबन्धो दैशिक यहशाद् दीर्घः पन्या इति प्रयोगः दीर्घत्वं स्वजातीयापेक्षया बोध्य दिवसो ग्रीष्मे दीर्घः निशा हेमन्ते दीर्घा विरहिवासो बहुतरवायुमण्डलगामितया दीर्घः एवं दीर्घपदोपस्थापितयोः दीर्घत्वयोः कालिके तृतीयार्थाधयत्वस्य दैशिके विशेष्यतया वासस्यान्वयो योग्यतावलात्सहार्थ: एवं दिवसष्टत्तेर्वा बहुतरकालसंबन्धस्य समानकालिको यो बहुतरदेशसंबन्धस्तह Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy