________________
२१३
विभक्त्यर्थनिर्णये । थार्थस्य संसर्गीभूता प्रतियोगितैव प्रतियोगिनो ध्वंसपदार्थस्य नजथें संसर्गोभवति अथ वा अवच्छिन्नप्रतियोगिताकत्वं तृतीयार्थ: तच्च स्वरूपेण संबन्धेन नञर्थेइन्वेति व्युत्पत्तिवैचिल्यण प्रतियोगिनोऽपि संसर्गीभवतौति वदन्ति । ततौयार्थोऽवच्छिन्नत्वं संसर्गीभूतप्रतियोगिताविशेषणतया भासत इति स्वतन्त्राः । वस्तुतस्तु समवायेनेत्यादिततौयान्तसमभिव्याहारः समवायाद्यवच्छिन्नप्रतियोगिताकत्वसंसर्गेण प्रतियोगिनो ध्वंसादिशब्दार्थस्य नार्थान्वयवोधे हेतुरित्येव रमणीयमिति । इयमेव गति: पटत्वेन घटो नास्ति शशीयत्वेन शृङ्गनास्तोत्यादावपि वोध्या । क चिनिरूपकत्वमपि तृतीयाथः यथा धूमस्य धूमत्वेन वतियाप्तिरित्यत्र निरूपकत्वंततौयार्थः तच्चाधेयतया प्रकृत्यर्थविशेषितं वह्निव्याप्तावन्वेति निरूपकत्वं तु व्यापकत्वलक्षणं घटकत्वमिति संप्रदाय: । अतिरिक्तमित्यन्ये । एवमङ्गुरेणानेकान्त इत्यत्र वहावयःपिण्डेन धूमव्यभिचार इत्यत्र च घटितत्वं व्याप्यत्वलक्षणमतिरिक्तं वा निरूपकत्वं तृतीयार्थः तच्चानेकान्तपदार्थे व्यभिचार धूमव्यभिचारे च प्रकृत्यर्थविशेषितमन्वति । क चिशिकसंसर्गावच्छिन्नमाधेयत्वं तृतीयार्थः यथा समेनैति विषमेयोतीत्यादी यदीयसकलोवयवानां प्रत्येकं स्वसंयुक्त संयोगादिपरम्पराणामूदिगवच्छिन्नानां तुल्यत्वं स भूभागः समो देशस्तदितरो- . विषमस्तथा च कर्ट घटितदैशिकपरम्परासंसर्गावच्छिन्नमाधेयत्व तृतीयार्थः तच्च प्रकृत्यर्थेन समेन विषमेण च देशन विशेषितं धात्वर्थगमनेन्वति न चात्र समादि
Aho! Shrutgyanam