SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। रुभयो: समभिव्याहारः प्रामाणिक इति वच्यते । अन्यत्रापि दृश्यते द्वितीयो यथा चैवं यावच्छौतमित्यादी यावद्योगे | यावन्निपातस्योत्तरावधिकपरत्वमर्थः तद. न्वयिनिरूपकत्वं दितीयार्थः अथ वा उत्तरावधिकपरत्वं खण्ड शोऽर्थ: अवध्यन्वयितादात्म्यं दितौयार्थ इति यथा वा“क कर्मप्रध्वस्तं फलति पुरुषाराधनसते इत्यादौ ऋते योगे अत एव"ऋते दितीया चे"ति चान्द्रं सूत्रम् करतेशब्दार्थो वच्च्यते "क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गत्वं चे"ति परिभाषणात् स्तोकं पचतीत्यादौ दितोया नपुंसकत्वमजहल्लिङ्गेतरशब्दानां बोध्यं तेन सुखहेतुं पश्यतीत्यत्र न क्लीवत्वं न च क्रियाविशेषगास्य कर्मत्वे कमलकारापत्त्या स्तोकः पच्यते इति प्रयोगः स्यादिति वाच्यं यतोऽनुशासनेन क्रियाविशेषणवाचिप्रातिपदिकानां कर्मत्ववाचिदितौयाप्रकृतित्वं प्रत्याय्यते अत एव शब्दधर्मक्लौवत्वस्याप्यन्वय इति तत्र यदि विशोषणविभक्तस्तादात्म्यमर्थस्तदा दितीयाया अपि यदि च तादात्म्यं संसर्गः विशेषणविभक्तिः साधुत्वार्थिका तदा द्वितीयापि साधुत्वार्थिका तबाद्ये तादात्म्यस्य फलान्वयेऽपि न कर्मत्वं फलान्वयिन आधेयत्वस्यैव तथात्वात् अन्यथा जलं न पचतीत्यत्र जलाधेयत्वाभावस्य विक्लित्यन्वये जलाधयत्वाभाव: पच्यत इति प्रयोगप्रसङ्गात् । दितीयपक्षेऽपि तादात्म्येन फलान्वयिनो न कर्मत्वं न हि सबन्धमावेण फलान्वयिकर्म भवति कालोपाधे: सकमंकमात्रकर्मत्वापत्तः किं तु तत्तत्संसर्गविशषेण फलान्वय्येव तव संसर्गविशेषे तादात्म्यं नान्तभवति येन Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy