SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ द्वितीयाविभक्तिविचारः । नियममानार्थकता न युज्यते गत्यादिसूत्रेणैव गत्याद्यर्थकभिन्नानां कर्तरि कर्मत्वविकल्पावगमेन हक्रोरित्यनुशासनस्य वैयर्थ्यप्रसङ्गात् । तस्मात् गत्यादीना मेव कर्तेतिनियमे गत्याद्यर्थकोन्यधातुकर्तरि व्यवच्छिन्नस्य प्रतिप्रसवार्थ विधानार्थ वा हृक्रोरित्यस्य पृथगारम्भः पयन्तयोइक्रोरण्यन्तहककर्तरि कर्मत्वं विकल्पेन ज्ञापयति यथा हारयति भारं भृत्येन भृत्यं वा प्रभुरित्यत्र मृत्यपदोत्तरटतीयाहितीययोः कृतिलक्षणं कर्तृत्वमर्थो हरणेऽन्वेति गत्यर्थकतया हृञः कर्तरि कर्मत्वस्य नित्यताप्राप्तौ विकल्पार्थ ग्रहणं सेतुं कारयति वानरैर्वानरान्वा राम इत्यत्र कञो यत्नार्थत्वे वानरपदोत्तरटतीयाहितीययोः समवेतत्वमर्थः उत्पादनार्थत्वे तु कृतिरर्थ इति मन्तव्यम् । अत्र धात्वर्थकर्मणः प्रयोगेऽप्रयोग वा धात्वथकर्तरि णिजर्थकर्मणि तिङादयः कर्मप्रत्यया भवन्ति यथा दिगन्तं गम्यते गमितो वा रिपुर्गम्यते गमिती वा रिपुः, धर्म बोध्यते बोधितो वा माणवक: बोध्यते बोधितो वा मोणवकः, मिष्टं भोज्यते भोजितो वाऽतिथि: भोज्यते भोजितो वाऽतिथि:, पयः पाय्यते पायितो वा शिशुः पाय्यते पायितो वा शिशः, ब्रह्म व्याहार्यते व्याहारितो वा माणवक: व्याहार्यते व्याहा-- रितो वा माणवकः, मासमास्यते आसितो वाऽतिथि: आस्यते आसितो वाऽतिथि:, तदुक्तम् । प्रधानकर्मण्याख्येये लादौनाहुहि कर्मणाम् । ॐ अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः ॥ इति यत्न यादृशकर्ट त्वं हितौथार्थ स्तन तादृशकट - Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy