SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १४२ द्वितीयाविभक्तिविचारः ।। भवतीति कश्चित् । गुरुचरणास्तु विभागानुत्पादः कर्मानुत्पादो व्यापारश्च मधेराः ब्रजं गां रुणद्धि गोपाल: इत्यादौ द्वितीययोराधेयत्यर्थः विभागानुत्पादः कर्मान पादे स व्यापार योगक्षेमसाधारण्या जनकतया इन्वेति एवं व्रजत्तिविभागानुत्पादस्य प्रयोजको यो गोत्तिकर्मानुत्पादस्तत्प्रयोजकव्यापारानुकूल कृतिमान् गोपाल दू याकारक: शाब्दबोध: व्रजपदोत्तरहितीयाया भेदोऽप्यर्थः तेन गां गां रुणद्धि इति न प्रयोग इति र दवाक्यरत्नाकरे प्राहुः । युज्यते चैतत् विभागानुत्पादस्वरूपगुण फलवत्तया ब्रजस्य गौणकर्मत्वोपपत्तेरिति । व्यापारप्रयोज्यविशेष ज्ञानेच्छा पृच्छतेरथस्तत्र व्यापारी विशेषज्ञानमिच्छा चेति त्रिषु खण्डशक्तिः जानपदं पन्यानं पृच्छति पान्थ इत्यादौ पथिपदोत्तराया विषयता-1 सम्बन्धावच्छिन्नं जानपदीत्तराया व्यापारीयतत्संसर्गावच्छिन्नं द्वितीयाया आधेयत्वमर्थः जानपदविशेषितंव्यापारे पथि विशेषितं विशेषत्ताने आधेयत्वमन्वेति व्यापारस्य प्रयोज्यतया विशेषज्ञाने तस्योद्येश्यितया दूछायामन्वयः एवं जानपदत्तिव्यापारप्रयोज्यस्य विषतया पथि वृत्तेविशेषज्ञानस्योद्देश्यिनी या इच्छा तदाश्रयः पान्थ इत्या कारक: शाब्दबोधः इच्छायां जाप्यमानत्वं विशेषणं तेन प्रतिवादिनो विशेषां तेन प्रतिवादिनो विशेषण शास्त्रार्थ ज्ञातुमिच्छति जिज्ञासाबोधककिंशब्दघटितबाक्यादिव्यापारमप्रयुञ्जाने जनेऽयं प्रतिवादिनं शास्त्रार्थ पृच्छतौति न प्रयोगः प्रयोगस्तु प्रति. वादिनोऽष्टष्टं शास्त्रार्थं ज्ञातुमिच्छत्ययमित्युपपद्यते । Aho! Shrutgyanam,
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy