SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ । विभक्त्यर्थनिर्णये। १२७ पेण धात्वर्थन संसृज्यते यत्तन्नित्यं नाम यथा कटं करोतीत्यत्व उत्पादनार्थककरोत्यर्थफलीभूतोत्यत्तिसंस्मृष्टः कटः । यत्तु विकारैर्धात्वर्थफलैः संसृज्यते तहिकार्य विकारस्तु कचिन्नाशस्वरूपः । यथा शg हिनस्तीत्यत्व नाशनार्थकहिंस्यर्थफलीभूतनाशसंसृष्टः शत्रुः क्वचिन्नाशानुकूलोऽवयव विघटनादिः यथा तृणं छिनत्ति कुसूलं भिनत्तीत्यादौ धात्वर्थफलेनावयवविघटनेन परम्परया संसृष्टस्तुणकुसूलादिः उत्पत्तिविकारभिन्नेन फलेन संसृष्टं तु प्राप्यं कर्म यथा ग्रामं गच्छति रूपं पश्यतीत्यादौ संयोगविषयत्वादिफलेन संसृष्टं ग्रामरूपादि । वाक्यपदीये हरिस्तु निर्वादिलक्षणमाह यथा वा । सतौ वाऽविद्यमाना वा प्रकृति: परिणामिनी। यस्य नाश्रीयते तस्य निर्वयत्वं प्रचक्षते ।। " प्रकृतेस्तु विवक्षायां विकार्य कैपिचदन्यथा । यस्य कर्मणः प्रकृति: समवायिकारणं परिणामितया उपादानतया नोपादीयते तत् क्रियाजन्यफलोत्यत्तिमन्निर्वयं कर्म यथा करोतीत्यत्र कटः नह्यत्र सदपि कटोपादानं वीरणं तथात्वेन विवक्ष्यते यत्र च प्रकतिरुपादीयते तद्विकार्य यथा कनकं कुण्डलं करोतीत्यत्र कुण्डलम् अत्रोपादानत्वविषयतया कनकस्य साध्यत्वविषयतया संसर्गेण फलेन वा कुण्डलस्य कृअर्थयत्नेन्वयः विकायें कर्मणि प्रकतिदिविधा कचिदुपादेयतुल्यकालिको सती यथा वौरां कटं करोति कनकं कुण्डलं करोति वेणुदलं वक्र करोतोत्यादी वीरगकनकवेणुदलादिकाः क्वचिदविद्यमाना कार्यासहत्तिस्तदसमान Aho! Shrutgyanam
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy