SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११८ द्वितीयाविभक्तिविचारः । सेन धातुना प्रत्याय्यते प्राधान्यवशात्क्रियाभावं प्राप्तस्य फलस्याधिकरणतया भवति शास्त्रार्थोऽधिगमादिकर्तेति प्राञ्चः । नन्वेवमधिगमा देर्विषयताविशेषणतया भागमानत्वेन फलत्वं स्यात् धात्वर्थविशेषणतया भासमानस्य धात्वर्थस्य तथात्वीपगमात् तथा अधिगमाद्यात्मकफलवतः शिष्यादेः कर्मत्वापत्त्या शिष्यमधिगच्छति शास्त्रार्थ इत्यादिप्रयोगः स्यात् न च बुभुक्षितं न प्रति भाति किंचिदिति दर्शनादियमिष्टापत्तिरिति वाच्यम् । अत्र प्रतियोगे द्वितीयाया अकर्मणि साधुत्वात् यत्तु । एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यं रूपं समास्थिताः || इति वाक्यपदीयवाक्यस्य एकदेशे फलमात्रे समूहे व्यापारमा वा धातवः प्रवर्तन्ते तेन व्यापाराविवचायां फलमात्रे धातुप्रयोग: यथा पच्यते श्रोदनः स्वयमेव फलाविवक्षायां व्यापारमात्रे धातुप्रयोगः यथो पचति चैत्र इत्यादावित्यर्थं व्याकुर्वाणैरधिगच्छति शास्वार्थ इत्यादी विषयताखरूपं फलमात्रं धात्वर्थः तच्च प्रधानतया क्रिया भवति विशेषणो भूतधात्वर्यस्य फलस्याभावात् फलावाचकत्वादकर्मकः कर्मस्वभावको धातुरिति नैतद्योगे हितोयाप्रसङ्ग इति कैश्चिदुक्तम् । तन्न विचारसहम | विषतया स्वरूपफलमाचार्थकतया अधिगच्छतिस्मरतिश्रद्दधातीनां पर्यायताप्रसङ्गात् । यदपि स्मरति शास्त्रार्थ इत्यादी विषयतया फलमुडोधकारिणोयत्तिर्व्यापारश्च धात्वर्थः फलव्यापा योर्वैयधिकरण्याभावादकर्मकः कर्मस्यभावको Aho! Shrutgyanam प
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy