________________
८५
विभक्त्यर्थनिर्णये ।
प्रतियोगिता संबन्धेनान्वेति श्रधेयत्वं फले स्वरूपेण भेदो व्यापारे सामानाधिकरण्येनान्वेति । एवं ग्रामं गच्छति चैत्र इत्यादावेकग्रामवृत्तिसंयोगानुकूलाया एकग्रामवृत्तेश्च क्रियाया अनुकूलकृतिमानेकः चैत्र इति शाब्दबोधः । तत्तद्यक्तित्वावच्छिन्न प्रतियोगिताया भेदसंबन्धोपगमान्मल्लो मल्लं गच्छतीत्यादौ नान्वयबोधानुपपत्तिरन्यथा मल्लत्वावच्छिन्नप्रतियोगिता कभेदसमोनाधिक
या मल्लगमनक्रियाया अप्रसिद्धेः शाब्दानुदयः स्यात् । न च शब्दायें भेदेऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितैव संबन्धो व्युत्पन्न इति वाच्यम् । नञर्थभेद एव तथाभ्युत्पत्तेः । अथ वा भेदे प्रातिपदिकार्थ आधेयत्वसबन्धेनान्वेति भेदः प्रतियोगितावच्छेदकतासंबन्धेन व्यापारेऽन्वेति । दर्शितस्थले गभ्यमल्लटत्तिभेदस्य गन्टमल्लगमने प्रतियोगितावच्छेदकतायाः सत्वात् गन्तृभेदस्य गम्ये सत्वात् नानुपपत्तिरिति । ननु भेदांशे द्वितीयाथक्तिकल्पनमप्रामाणिकं भेदानुभवस्य विवादग्रस्तत्वात् । कर्टसंज्ञया कर्मसंज्ञाया बाधात् चैत्रश्चैनं गच्छतीति प्रयोगप्रसक्त्यभावादित्युक्तत्वादिति चेन्न । निषेधप्रतीत्यन्यथाऽनुपपत्तेराख्यातवादे दीधितिकृतिः प्रमाणत्वेनोतत्वात् । तथा हि खगो भूमिं गच्छति न तु स्वमिति सर्वजनोनः प्रयोगस्तत्व भूमिकर्मकगमनकर्तृत्वं स्वकर्मकगमनकर्तृत्वाभावश्चेत्युभयमथ वा स्वकर्मकत्वाभाववतो भूकर्मकगमनस्य कर्तृत्वं खगे प्रतौयते । तत्र स्वपदोत्तरद्दितौयाऽऽधेयत्वमावमभिधत्ते यदि तदा गमि फले संयोगे स्त्रायत्वस्य सत्वान्न तस्य निषेधः । न व
Aho ! Shrutgyanam