SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । दितशब्दार्थविशेषितानां शराणामाकर्णने कर्मतथाऽन्ययेsपि न व्यभिचार इति वाच्यम् । नौलं घटं पश्येत्यादी नीलपदार्थविशेषितस्य घटस्य कर्मतया दर्शनेऽन्वयवोवादन्वयव्यभिचारादिति द्वितीयाया आश्रयोऽर्थः तेन वाक्यार्थस्य कर्मतासंसर्गेणान्वयबोधे द्वितौयार्थस्य नविशेषतया न प्रकारतया मानमिति द्वितीयाज्ञानस्य तज्जन्योपस्थितेर्वा न व्यभिचार इति जलं न पचतीत्यत्र जलाश्रयाभावः पाके प्रतीयते नृत्यनियामकसम्बन्धस्य प्रतियोगिता नवच्छेदकत्वे बौजाभावादिति चेन्न । यतोनृत्य नियामकसम्बन्धो न प्रतियोगिमत्ताबुद्धिजनकः । ग गनादिसंयोगस्य मृर्ते सत्वेऽपि मृतं गगनादिमत् गगनादि मूर्तवति प्रतीत्यनुदयात् तथा च प्रतियोगिमत्ताबुधजनकत्वेन व्यधिकरणसम्बन्धतुल्यो हत्यनियामकसंबन्ध इति व्यधिकरणसंबन्धावच्छिन्न प्रतियोगिताकस्येव नृत्यनियामक संबन्धावच्छिन्न प्रतियोगिताकस्यायभावस्य केवलान्वयित्वमित्येव नृत्यनियामक संवन्धस्य प्रत्ययर्थाभावप्रतियोगितानवच्छेदकत्वे बीजमिति नञ तत्संबन्धावच्छिन्नप्रत्ययार्थाभावो न बोध्यते । यदि बोध्येत तदा नृत्यनियामकमंबन्धेन प्रतियोगिसंबन्धिनि यथा मृर्ते न गगनादि गगनादौ न मृर्तमित्यादि प्रयोगस्तथा तण्डलं पचत्यपि तण्ड़खं न पचतौति प्रयोगः स्यात् । न चैवं द्वितीयाया निरर्थकवेऽपि जलं न पचति तण्डुलं न पचतीत्यादावन्वयबोधानुपपत्तिस्तदवस्थेति वाच्यम् । आश्रयस्याधिकरणनायात्रा द्वितीयार्थत्ववादे द्वितीयाया निरर्थकत्ववादे च S Aho ! Shrutgyanam ८३ - -
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy