SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ७५ क्तिः । एकपदोपात्तयोरपि परस्परमन्वयो भवति यथा तिर्थानां साधनताघटकानामधिकरणाभावादीनां यथा वा तिर्थक सङ्ख्ययोस्तत्र फलं विह्नित्तिसंयोगादि तायेण पविगम्यादिनाऽभिधीयते वह्निः पचतौलीर्ध्व ज्वलनत्वेन चैवः पचतोत्यवः धिश्रथ गावतारात्कारास्तादूयेण व्यापाराः पाचकः पचतीव प्रयत्नत्वेन व्यापाराः पचिनाऽभिधीयन्ते रथो गच्छतीत्यत्र स्पन्दत्वेन तुरगो गच्छतीत्यत्र प्रयत्नत्वेन व्यापारा गमिनाऽभिधीयन्ते । तत्र सकलव्यापार नुगतस्य धर्मस्यासत्वात् सत्वे वा तेन धर्मेण व्यापाराणामप्रतीतेन्ननुगतं प्रवृत्तिनिमित्तमिति बुद्धिविशेषविषयत्वोपलक्षितधर्मविशिष्टे सर्वनाम्नाभिवाथ वा फलजनकतावच्छेदकत्वोपलक्षितधर्मविशिअष्ट धातूनां शक्तिः अत एव विक्लित्तिजनकतावच्छेदकतया यो धर्मी गृहीतस्तद्दर्मविशिष्टमेव पचिनोपस्थाप्यते धात्वर्थव्यापार एव भावनोत्पादना क्रिया चेति व्यपदिश्यते तत्र प्रधानतया भासमाने व्यापारेऽधिश्रयणादौ फलस्य विक्लित्यादेरनुकूलत्वादिना संसर्गेण तिर्थस्य वर्तमानकालस्य कर्तुश्च तत्तत्स मर्गावच्छिन्नाधेयतयाऽन्वयः कर्तरि तिङपात्ता सङ्ख्या समवायादिना प्रथमातार्थश्व तादाम्येनान्वेति प्रथमान्तार्थे सुबर्थ सङ्ख्याऽन्वेति फले द्वितीयार्थस्याश्रयस्याधेयतयाऽऽश्रये प्रातिपदिकार्थस्य तादात्म्येन प्रातिपदिकार्थे सुबर्थ सङ्ख्यायाः समवायादिनाऽन्वयः । एवं चैत्रस्तण्डुलं पचतीत्यादौ एकत गड़लाभिन्नाश्रयष्टत्तिविक्लित्यनुकूलाधिश्रयणादिक्रियावर्तमानकालवृत्तिरे कचैत्राभिन्नैका श्रयवृत्तिश्चेत्यन्वय बोध Aho! Shrutgyanam -
SR No.034214
Book TitleVibhakatartha Nirnay
Original Sutra AuthorN/A
AuthorGirdhar Jha, Jivnath Mishra
PublisherChaukhambha Sanskrit Series Office
Publication Year1902
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari
File Size524 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy